Shri Matripadapankajashtakam

Ashtakam

1

मातस्त्वत्पदपङ्कजं कल्यतां चेतोऽम्बुजे सन्ततं मानाथाम्बुजसम्भवाद्रितनयाकान्तैः समाराधितम्। वाञ्छापूरणनिर्जितामरमहीरुड्गर्वसर्वस्वकम् वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात्॥

2

मातस्त्वत्पदपङ्कजं मुनिमनःकासारवासादरं मायामोहमहान्धकारमिहिरं मानातिगप्राभवम्। मातङ्गाभिमतिं स्वकीयगमनैर्निर्मूलयत्कौतुका- द्वन्देऽमन्दतपःफलाप्यनमनस्तोत्रार्चनाप्रक्रमम्॥

3

मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारान्निधे राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम्। वृन्दं प्राणभृतां स्वनाम वदतामत्यादरात्सत्वरं षद्भाषासरिदीश्वरं प्रतिदधत्षाण्मातुरार्च्यं भजे॥

4

कामं फालतले दुरक्षरततिर्दैवी ममास्तां न भी- र्मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि तां निश्चितम्। मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवात् कालं तद्वदहं चतुर्मुखमुखाम्भोजातसूर्यप्रभे॥

5

पापानि प्रशमं नयाशु ममतां देहेन्द्रियप्राणगां कामादीनपि वैरिणो दृढतरान्मोक्षाध्वविघ्नप्रदान्। स्निग्धान्पोषय सन्ततं शमदमध्यानादिमान्मोदतो मातस्त्वत्पदपङ्कजं हृदि सदा कुर्वे गिरां देवते॥

6

मातस्त्वत्पदपङ्कजस्य मनसा वाचा क्रियातोऽपि वा ये कुर्वन्ति मुदान्वहं बहुविधैर्दिव्यैः सुमैरर्चनाम्। शीघ्रं ते प्रभवन्ति भूमिपतयो निन्दन्ति च स्वश्रिया जम्भारातिमपि ध्रुवं शतमखीकष्टाप्तनाकश्रियम्॥

7

मातस्त्वत्पदपकजं शिरसि ये पद्माटवीमध्यत- श्चन्द्राभं प्रविचिन्तयन्ति पुरुषाः पीयूषवर्ष्यन्यहम्। ते मृत्युं प्रविजित्य रोगरहिताः सम्यग्दृढाङ्गाश्चिरं जीवन्त्येव मृणालकोमलवपुष्मन्तः सुरूपा भुवि॥

8

मातस्त्वत्पदपङ्कजं हृदि मुदा ध्यायन्ति ये मानवाः सच्चिद्रूपमशेषवेदशिरसां तात्पर्यगम्यं मुहुः। अत्यागेऽपि तनोरखण्डपरमानन्दं वहन्तः सदा सर्वं विश्वमिदं विनाशि तरसा पश्यन्ति ते पूरुषाः॥