parivRRiDhAShTakam

Ashtakam

1

कलिन्दोद्भूतायास्तटमनुचरन्ती पशुपजां रहस्येकां दृष्ट्वा नवसुभगवक्षोजयुगलाम्। दृढं नीवीग्रन्धि श्लथयति मृगाक्ष्या हटतरं रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे॥

2

समायाते स्वस्मिन्सुरनिलयसाम्यं गतवति व्रजे वैशिष्ट्यं यो निजपदगताब्जाङ्कुशयवैः। अकार्षीत्तस्मिन्मे यदुकुलसमुद्भासितमणौ रतिप्रादुर्भावो भवतु सततं श्रीपरिवढे॥

3

हिहीहीहीकारान् प्रतिपशु वने कुर्वति सदा नमद्भह्मेशेन्द्रप्रभृतिषु च मौनं धृतवति। मृगाक्षीभिः स्वेक्षानवकुवलयैरर्चितपदे रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे॥

4

सकृत्स्मृत्वा कुम्भी यमिह परमं लोकमगम- च्चिरं ध्यात्वा धाता समाधिगतवान्यं न तपसा। विभौ तस्मिन्मह्यं सजलजलदालीनिभतनौ रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे॥

5

परा काष्ठा प्रेम्णां पशुपतरुणीनां क्षितिभुजां सुदृक्तानां त्रासास्पदमखिलभाग्यं यदुपतेः। विभुर्यस्तस्मिन्मे दरविकचजम्बालजमुखे रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे॥

6

दरप्रादुर्भूतद्विजगणमहः पूरितवने चरं कुह्वां राकारुचिरतरशोभाधिकरुचि। हरिर्यस्तस्मिंस्त्रीगणपरिवृतो नृत्यति सदा रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे॥

7

स्फुरद्गुञ्जापुञ्जाकलितनिजपादाब्जविलुठत्- स्रजि श्यामाकामास्पदपदयुगे मेचकरुचि। वराङ्गे श‍ृङ्गारं दधति शिखिनां पिच्छपटलैः रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे॥

8

दुरन्तं दुःखाब्धिं हसितसुधया शोषयति यो यदास्येन्दुर्गोपीनयननलिनानन्दकरणम्। अनङ्गः साङ्गत्वं व्रजति मम तस्मिन् मुररिपौ रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे॥

9

इदं यः स्तोत्रं श्रीपरिवृढसमीपे पठति वा श‍ृणोति श्रद्धावान् रतिपतिपितुः पादयुगले। रतिं प्रेप्सुः शश्वत्कुवलयदलश्यामलतनौ रतिः प्रादुर्भूता भवति न चिरात्तस्य सुदृढा॥