AryAdurgAShTakam

Ashtakam

1

श्रीगणेशाय नमः॥

2

आर्यादुर्गाऽभिधाना हिमनगदुहिता शङ्करार्धासनस्था माता षाण्मातुरस्याखिलजनविनुता संस्थिता स्वासनेऽग्र्ये। गीता गन्धर्वसिद्धैर्विरचितबिरुदैर्याऽखिलाङ्गेषु पीता संवीता भक्तवृन्दैरतिशुभचरिता देवता नः पुनातु॥

3

मातस्त्वां साम्बपत्नीं विदुरखिलजना वेदशास्त्राश्रयेण नाहं मन्ये तथा त्वां मयि हरिदयितामम्बुजैकासनस्थाम्। नित्यं पित्रा स देशे निजतनुजनिता स्थाप्यते प्रेमभावात् एतादृश्यानुभूत्यो दधितटसविधे संस्थितां तर्कयामि॥

4

नासीदालोकिता त्वत्तनुरतिरुचिराऽद्यावधीत्यात्मदृष्ट्या लोकोक्त्या मे भ्रमोऽभूत्सरसिजनिलये नामयुग्माक्षरार्थात्। सोऽयं सर्वो निरस्तस्तव कनकमयीं मूर्तिमालोक्य सद्यः साऽपर्णा स्वर्णवर्णार्णवतनुजनिते न श्रुता नापि दृष्टा॥

5

श्रीसूक्तोक्ताद्यमन्त्रात्कनकमयतनुः स्वर्णकञ्जोच्चहारा सारा लोकत्रयान्तर्भगवतिभवतीत्येवमेवागमोक्तम्। तन्नामोक्ताक्षरार्थात्कथमयि वितथं स्यात्सरिन्नाथकन्ये दृष्टार्थे व्यर्थतर्को ह्यनयपथगतिं सूचयत्यर्थदृष्ट्या॥

6

तन्वस्ते मातरस्मिञ्जगति गुणवशाद्विश्रुतास्तिस्र एव काली श्रीर्गीश्च तासां प्रथममभिहिता कृष्णवर्णा ह्यपर्णा। लक्ष्मीस्तु स्वर्णवर्णा विशदतनुरथो भारती चेदमूषु स्वच्छा नोनापि कृष्णा भगवति भवती श्रीरसीत्येव सिद्धम्॥

7

नामाद्यायाः स्वरूपं कनकमयमिदं मध्यमायाश्च यान- मन्त्यायाः सिंहरूपं त्रितयमपि तनौ धारयन्त्यास्तवेदृक्। दृष्ट्वा नूत्नैव सर्वा व्यवहृतिसरणीरिन्दिरे चेदतर्क्या त्वामाद्यां विश्ववन्द्यां त्रिगुणमयतनुं चेतसा चिन्तयामि॥

8

त्वद्रूपज्ञानकामा विविधविधसमाकॢप्ततर्कैरनेकै- र्नो शक्ता निर्जरास्ते विधि-हरि-हरसंज्ञा जगद्वन्द्यपादाः। का शक्तिर्मे भवित्री जलनिधितनये ज्ञातुमुग्रं तवेदं रूपं नाम्ना प्रभावादपि वितथफलो मे बभूव प्रयत्नः॥

9

अस्त्वम्ब त्वय्यनेकैरशुभशुभतरैः कल्पितैरम्ब तर्कै- रद्याहं मन्दबुद्धिः सरसिजनिलये सापराधोऽस्मि जातः। तस्मात्त्वत्पादपद्मद्वयनमितशिरा प्रार्थयाम्येतदेव क्षन्तव्यो मेऽपराधो हरिहरदयिते भेदबुद्धिर्न मेऽस्ति॥

10

आर्यादुर्गाष्टकमिदमनन्तकविना कृतम्। तव प्रीतिकरं भूयादित्यभ्यर्थनमम्बिके॥