Kaverya Ashtakam

Ashtakam

1

रङ्गत्रयोत्सङ्गविराजमाने- ब्रह्माद्रिकूटाश्रिततीर्थगर्भे। समस्तसिद्धाश्रमरम्यतीर्थे कावेरि कावेरि मम प्रसीद॥

2

तुलागतेऽर्केतटिनीपराभि- गङ्गादिभिस्सेवितपादपद्मे। त्रिकोटितीर्थाश्रमपुष्कराढ्ये कावेरि कावेरि मम प्रसीद॥

3

ददासि कुल्याभिरनर्घधान्यान् अशेषचोलीयजनस्य देवि। भुक्तिप्रदे मुक्तिविधानदक्षे- कावेरि कावेरि मम प्रसीद॥

4

निजाभिधानश्रवणाहतानां- निस्शेषपापक्षयकारिणी त्वम्। निदाघतृष्णादि निरासदक्षे- कावेरि कावेरि मम प्रसीद॥

5

पराशरागस्त्यवसिष्ठमुख्यै - महर्षिभिर्मान्यतपोभिरम्ब। त्वमाश्रिता कर्मठसिद्धिहेतुः कावेरि कावेरि मम प्रसीद॥

6

मायूरमध्यार्जुनकुम्भघोण- श्रीरङ्गचुञ्चुस्थलघट्टगात्वम्। सह्योद्भवे सिन्धुयुते स्वतन्त्रे कावेरि कावेरि मम प्रसीद॥

7

ब्रह्मादिभिर्देववरैस्त्रिसन्ध्यं वसिष्ठपूर्वैर्मुनिभिर्वरिष्ठैः। नित्यं गजारण्यगतैनिषेव्ये कावेरि कावेरि मम प्रसीद॥

8

सुवासिनीनां च निजाश्रितानां- पतिप्रियत्वं च सुतादिवर्गम्। दास्यस्युदारं बहुभोगभाग्यं कावेरि कावेरि मम प्रसीद॥

9

निजप्रवाहाप्लवलब्धपुण्य- प्रसिद्धसत्कर्मफलोदयेन। नृणामभीष्टार्थविधायिनी त्वं कावेरि कावेरि मम प्रसीद॥