Sankashtaharanam Ganeshashtakam
Ashtakam
1
(श्रीसिद्धलक्ष्मीगणपतिस्तोत्रम्) श्रीगणेशाय नमः। ध्यानम् - हरतु कुलगणेशो विघ्नसङ्घानशेषान् नयतु कुलसपर्या पूर्णतां साधकानाम्। पिबतु बटुकनाथश्शोणितं निन्दकानाम् दिशतु सकलकामान् कौलिकानां गणेशः॥
2
श्रीसिद्धलक्ष्मीगणेशाभ्यां नमः। ॐ अस्य श्रीसिद्धलक्ष्मीगणपतिस्तोत्रमालामन्त्रस्य गणकऋषिः गायत्रीछन्दः लक्ष्मीगणपतिर्देवता ॐ गं बीजं हीं शक्तिः क्लीं कीलकं मम सर्वं मनोरथसिद्ध्यर्थे श्रीसिद्धलक्ष्मीगणपतिप्रीत्यर्थे जपे विनियोगः॥
3
अथ करन्यासः। ॐ गं अङ्गुष्ठाभ्यां नमः। ॐ हीं तर्जनीभ्यां नमः। ॐ क्लीं मध्यमाभ्यां नमः। ॐ गं अनामिकाभ्यां नमः। ॐ ह्रीं कनिष्ठिकाभ्यां नमः। ॐ क्लीं करतलकरपृष्ठाभ्यां नमः। इति करन्यासः॥
4
अथ हृदयादि न्यासः। ॐ गं हृदयाय नमः। ॐ हीं शिरसे स्वाहा। ॐ क्लीं शिखायै वषट्। ॐ गं कवचाय हुं। ॐ हीं नेत्रत्रयाय वौषट्। ॐ अस्त्राय फट्। इति हृदयादि न्यासः॥
5
विघ्नेशं परमं परात्परतरं सिन्दूरसर्वाङ्कितं मुक्ताविद्रुमहेमभूषणयुतं मन्दारमालार्चितम्। आनन्दं च मनोहरं शुभकरं पाशाङ्कुशेः शोभितं ध्यायेद् विघ्नविनाशनं सुखकरं गौरीसुतं तं नमः॥
6
Alternative viniyogaH ॐ अस्य श्रीसङ्कष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता, संकष्टहरणार्थे जपे विनियोगः ।॥
7
अथ स्तोत्रम्॥
8
ॐ ॐ ॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं var ॐकाररूपं हिमकररुचिरं त्रैगुण्यातीतलीलं कलयति मनसस्तेज-सिन्दूर-मूर्तिम्। योगीन्द्रैर्ब्रह्मरन्ध्रैः सकल-गुणमयं श्रीहरेन्द्रेण सङ्गं गं गं गं गं गणेशं गजमुखमभितो व्यापकं चिन्तयन्ति॥
9
वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे न्यस्तशुण्डं क्रं क्रं क्रं क्रोधमुद्रा-दलित-रिपुबलं कल्पवृक्षस्य मूले। दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं धं धं धं धारयन्तं धनदमतिधियं सिद्धि-बुद्धि-द्वितीयम्॥
10
तुं तुं तुं तुङ्गरूपं गगनपथि गतं व्याप्नुवन्तं दिगन्तान् क्लीं क्लीं क्लींकारनाथं गलितमदमिलल्लोल-मत्तालिमालम्। ह्रीं ह्रीं ह्रींकारपिङ्गं सकलमुनिवर-ध्येयमुण्डं च शुण्डं श्रीं श्रीं श्रीं श्रीं श्रयन्तं निखिल-निधिकुलं नौमि हेरम्बबिम्बम्॥
11
लौं लौं लौंकारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीनां शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम्। डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च॥
12
हुं हुं हुं हेमवर्णं श्रुति-गणित-गुणं शूर्पकर्णं कृपालुं ध्येयं सूर्यस्य बिम्बं ह्युरसि च विलसत् सर्पयज्ञोपवीतम्। स्वाहा हुं फट् नमोऽन्तैष्ठ-ठ-ठ-ठ-सहितैः पल्लवैः सेव्यमानं मन्त्राणां सप्तकोटि-प्रगुणित-महिमाधारमीशं प्रपद्ये॥
13
पूर्वं पीठं त्रिकोणं तदुपरि-रुचिरं षट्कपत्रं पवित्रं यस्योर्ध्वं शुद्धरेखा वसुदल कमलं वा स्वतेजश्चतुस्रम्। मध्ये हुङ्कार बीजं तदनु भगवतः स्वाङ्गषट्कं षडंशे अष्टौ शक्तीश्च सिद्धीर्बहुलगणपतिर्विष्टरश्चाऽष्टकं च॥
14
धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्यः कपालं तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्रमुद्रामहेशम्। एवं यो भक्तियुक्तो जपति गणपतिं पुष्प-धूपा-ऽक्षताद्यै- र्नैवेद्यैर्मोदकानां स्तुतियुत-विलसद्-गीतवादित्र-नादैः॥
15
राजानस्तस्य भृत्या इव युवतिकुलं दासवत् सर्वदास्ते लक्ष्मीः सर्वाङ्गयुक्ता श्रयति च सदनं किङ्कराः सर्वलोकाः। पुत्राः पुत्र्यः पवित्रा रणभुवि विजयी द्यूतवादेऽपि वीरो यस्येषो विघ्नराजो निवसति हृदये भक्तिभाग्यस्य रुद्रः॥
16
गणेशस्तोत्रमिदं पुण्यं प्रातरुत्थाय यः पठेत्। तस्य सर्वाणि कार्याणि सिद्धिं यान्ति ह्यसंशयम्॥
17
इति सङ्कष्टहरणं गणेशाष्टकं अथवा वक्रतुण्डस्तोत्रं सम्पूर्णम्॥