Shri Virabhadra Ashtakam

Ashtakam

1

दक्षाध्वरध्वंसविधानदक्षं दम्भोलितुल्यायतबाहुवृन्दम्। फालोज्ज्वलन्नेत्रहुताशनेन भस्मीकृतारिं भज वीरभद्रम्॥

2

कङ्कालदण्डं कठिनोग्रदंष्ट्रं कपालमालं(ला)कमनीयहारम्। कन्दर्पदर्पापहसर्पहारं भस्माङ्गलेपं भज वीरभद्रम्॥

3

भूतेशमीशं भुजगाभिरामं भस्मीकृताशेषपुरप्रतापम्। उन्निद्रपद्मायतनेत्रपद्मं श्रीवीरभद्रं भज वीरभद्रम्॥

4

कालाञ्जनश्यामलकोमलाङ्गं कण्ठान्तरस्थापितकालकूटम्। भागीरथीचुम्बितमौलिभागं फालाग्निनेत्रं भज वीरभद्रम्॥

5

निशाटकोटीपटुसेव्यमानं नीलाञ्जनाभं निहतारिलोकम्। पाटीरवाटं वटमूलवासं भद्राक्षमालं भज वीरभद्रम्॥

6

जगत्प्रवीरं जगतामधीशं बालेन्दुजूटं फणिराजभूषम्। सहस्रबाहुं सनकादिवन्द्यं चक्राभिरामं भज वीरभद्रम्॥

7

मञ्जीरपुञ्जारवमञ्जुपादं कुञ्जामराम्भोजमणीन्द्रहारम्। (?) कञ्जातसञ्जातविराजमानं विकासिनेत्रं भज वीरभद्रं (?)॥

8

कालस्य कालं कनकाद्रिचापं वीरेश्वरं निर्विषयान्तरङ्गम्। निरीहमेकं निगमान्तमृग्यं निर्वाणहेतुं भज वीरभद्रम्॥

9

भद्राष्टकं (पापहरं) पठेद्यः प्रभातकाले पितृसूतिकाले। सुखी भवेत्सम्पदवान् सुभोगी सुरूपवान् सुस्थिरषुद्धितस्य (बुद्धियुक्तः) (?)॥

10

इति श्रीवीरभद्राष्टकं सम्पूर्णम्॥