Balakrishna Ashtakam

Ashtakam

1

तं बालमद्भुतंरूपमम्बुजाक्षं चतुर्भुजम्। किरीटिनं कुण्डलिनं वनमालाविभूषितम्॥

2

शङ्ख चक्र गदा पद्म, धारिणं दिव्यविग्रहम्। श्रीवत्साङ्कितवक्षञ्च गले कौस्तुभशोभितम्॥

3

श्यामाङ्गे पीतवस्त्रं च शोभितं वपुषंहरिम्। गोपालबालकानां हि सहक्रीडाकर विभुम्॥

4

गोपीनां कोमलाङ्गीनां क्रोडेषु समलं कृतम्। अत्यन्तं कोमलाङ्गञ्च विम्बोष्ठं तं हरिं भजे॥

5

कालिन्दी पुलिनेरम्ये क्रीडन्तं बालकः सह। आनन्दकन्दरूपं तं बालकृष्णमहं भजे॥

6

वीणाधारीनारदस्य दृष्ट्याग्रेणपलायितम्। यशोदाऽङ्केरूरूक्षतं बालकृष्णमहं भजे॥

7

एकदा दधिचौराय यशोदोक्तं च किङ्कृतम्। सोऽवदत् कङ्कणदाह शान्तङ्कुर्मेतिमातरम्॥

8

क्रीडासक्ताय कृष्णाय माताह्वयति यदा। नायाति वत्सः किं तुभ्यं ताडनाकरणीयमे॥

9

भयात् शीघ्रं समायाति पुनरालिङ्ग्य चुम्बितम्। बाललीला करं देवं तं वन्दे कृष्ण दुर्लभम्॥