Shri Tanatulasidasacharyapranitam Shriramapranama Ashtakam
Ashtakam
1
आदिर्यस्य तथा चान्तः क्वचिच्चापि न लभ्यते। आद्यन्तरहितं ब्रह्म तं रामं प्रणमाम्यहम्॥
2
उपादानं निमित्तं च कारणं जगतोऽस्य यः। अद्वितीयं जगद्धेतुं तं रामं प्रणमाम्यहम्॥
3
यस्मिन्निदं जगत् सर्वं सर्वस्मिन् यश्च विद्यते। सर्वस्यान्तर्बहिर्व्याप्तं तं रामं प्रणमाम्यहम्॥
4
अर्चनात् कीर्त्तनाद् यस्य भवाब्धिस्तीर्यते सुखम्। सर्वेषां तारकं ब्रह्म तं रामं प्रणमाम्यहम्॥
5
नैयायिका वदन्तीशं कर्म मीमांसकाश्च यम्। वेदान्तवेदिनो ब्रह्म तं रामं प्रणमाम्यहम्॥
6
यस्य भक्त्या प्रपत्त्या वा सायुज्यं लभते नरः। त्रातारं स्वाश्रितानां च तं रामं प्रणमाम्यहम्॥
7
स्वे स्वे कार्ये रता देवाः सन्ति यस्य भयादिह। नियामकं च सर्वेषां तं रामं प्रणमाम्यहम्॥
8
अमोघं वन्दनं यस्य पूजनं कीर्त्तनं तथा। अमोघस्मरणं चेशं तं रामं प्रणमाम्यहम्॥
9
श्री तनतुलसीदासद्वारपीठेशनिर्मितम्। भवतादष्टकं चेदं पठतां सुखदं नृणाम्॥