Shri Raghavendra Mangalashtakam
Ashtakam
1
श्रीमद्रामपादारविन्दमधुपः श्रीमध्ववंशाधिपः सच्चिष्योडुगणोडुपः श्रितजगद्गीर्वाणसत्पादपः। अत्यर्थं मनसा कृताच्युतजपः पापान्धकारातपः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम्॥
2
कर्मन्दीन्द्रसुधीन्द्रसद्गुरुकराम्भोजोद्भवः सन्ततं प्राज्यध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीधवः। सच्छास्त्रादि विदूषकाखिलमृषावादीभकण्ठीरवः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम्॥
3
सालङ्कारककाव्यनाटककलाकाणादपातञ्जल- त्रय्यर्थस्मृतिजैमिनीयकवितासङ्कीतपारङ्गतः। विप्रक्षत्रविडङ्घ्रिजातमुखरानेकप्रजासेवितः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम्॥
4
रङ्गोत्तुङ्गतरङ्गमङ्गलकर श्रीतुङ्गभद्रातट- प्रत्यक्स्थद्विजपुङ्गवालय लसन्मन्त्रालयाख्ये पुरे। नव्येन्द्रोपलनीलभव्यकरसद्वृन्दावनान्तर्गतः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम्॥
5
विद्वद्राजशिरःकिरीटखचितानर्घ्योरुरत्नप्रभा रागाघौघहपादुकाद्वयचरः पद्माक्षमालाधरः। भास्वद्दण्टकमण्डलूज्ज्वलकरो रक्ताम्बराडम्बरः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम्॥
6
यद्वृन्दावनसत्प्रदक्षिणनमस्काराभिषेकस्तुति- ध्यानाराधनमृद्विलेपनमुखानेकोपचारान् सदा। कारं कारमभिप्रयान्ति चतुरो लोकाः पुमर्थान् सदा श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम्॥
7
वेदव्यासमुनीशमध्वयतिराट् टीकार्यवाक्यामृतं ज्ञात्वाऽद्वैतमतं हलाहलसमं त्यक्त्वा समाख्याप्तये। सङ्ख्यावत्सुखदां दशोपनिषदां व्याख्यां समाख्यन्मुदा श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम्॥
8
श्रीमद्वैष्णवलोकजालकगुरुः श्रीमत्परिव्राड्गुरुः शास्त्रे देवगुरुः श्रितामरतरुः प्रत्यूहगोत्रस्वरुः। चेतोऽतीतशिरुस्तथा जितवरुस्सत्सौख्यसम्पत्करुः श्रीमत्सद्गुरुराघवेन्द्रयतिराट् कुर्याद्ध्रुवं मङ्गलम्॥
9
यस्सन्ध्यास्वनिशं गुरोर्यतिपतेः सन्मङ्गलस्याष्टकं सद्यः पापहरं स्वसेवि विदुषां भक्त्यैतदाभाषितम्। भक्त्या वक्ति सुसम्पदं शुभपदं दीर्घायुरारोग्यकं कीर्तिं पुत्रकलत्रबान्धवसुहृन्मूर्तिः प्रयाति ध्रुवम्॥