Shri Surasuranandacharya Ashtakam

Ashtakam

1

रामानन्दाचार्यशिष्यं चानन्दभाष्यस्य शिक्षकम्। वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम्॥

2

सीतारामञ्जनेयानां पूजकं जनपूजितम्। वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम्॥

3

सर्वेश्वरस्य रामस्य कथाकीर्त्तनतत्परम्। वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम्॥

4

वादिहस्तिमृगेन्द्रं च सिद्धेन्द्रं सिद्धसेवितम्। वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम्॥

5

रामानन्दकुलोत्तंसं धर्मरक्षणदीक्षितम्। वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम्॥

6

भक्तिभागीरथीं दत्त्वा पापिनामपि मुक्तिदम्। वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम्॥

7

संस्कारैः पञ्जभिश्चाथ वैष्णवत्वविधायकम्। वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम्॥

8

ज्ञापकं सद्रहस्यानां योगीन्द्रं तपसां निधिम्। वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम्॥