Durga Ashtakam
Ashtakam
1
दुर्गे परेशि शुभदेशि परात्परेशि वन्द्ये महेशदयिते करुणार्णवेशि। स्तुत्ये स्वधे सकलतापहरे सुरेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि॥
2
दिव्ये नुते श्रुतिशतैर्विमले भवेशि कन्दर्पदाराशतसुन्दरि माधवेशि। मेधे गिरीशतनये नियते शिवेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि॥
3
रासेश्वरि प्रणततापहरे कुलेशि धर्मप्रिये भयहरे वरदाग्रगेशि। वाग्देवते विधिनुते कमलासनेशि कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि॥
4
पूज्ये महावृषभवाहिनि मंगलेशि पद्मे दिगम्बरि महेश्वरि काननेशि। रम्येधरे सकलदेवनुते गयेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि॥
5
श्रद्धे सुराऽसुरनुते सकले जलेशि गंगे गिरीशदयिते गणनायकेशि। दक्षे स्मशाननिलये सुरनायकेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि॥
6
तारे कृपार्द्रनयने मधुकैटभेशि विद्येश्वरेश्वरि यमे निखलाक्षरेशि। ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि कृष्णस्तुते कुरु कृपां ललितऽखिलेशि॥
7
मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि माहेश्वरि त्रिनयने प्रबले मखेशि। तृष्णे तरंगिणि बले गतिदे ध्रुवेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि॥
8
विश्वम्भरे सकलदे विदिते जयेशि विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि। मातः सरोजनयने रसिके स्मरेशि कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि॥
9
दुर्गाष्टकं पठति यः प्रयतः प्रभाते सर्वार्थदं हरिहरादिनुतां वरेण्यां। दुर्गां सुपूज्य महितां विविधोपचारैः प्राप्नोति वांछितफलं न चिरान्मनुष्यः॥
10
इति श्री मत्परमहंसपरिव्राजकाचार्य श्रीमदुत्तरांनायज्योतिष्पीठाधीश्वरजगद्गुरू-शंकराचार्य-स्वामि- श्रीशान्तानन्द सरस्वती शिष्य-स्वामि श्रीमदनन्तानन्द-सरस्वति विरचितं श्री दुर्गाष्टकं सम्पूर्णम्॥