Avalokiteshvarashtaka Stotram
Ashtakam
1
ॐ नमोऽवलोकितेश्वराय। स्तुत्वा गुणैरनुपमैरनुबिन्दुपात्रं स्तोत्रं मया कृतमिदं जडवालिशेन। लोकेश्वरं गुणनिधिं गुणसागरं च नित्यं नमामि शिरसाञ्जलिसम्पुटेन॥
2
प्राणेषु यन् स्रवति येन रसाम्बुपारान् क्षुत्तृष्णदुःखपरिपीडितसर्वसत्त्वान्। एवंविधं जगदिदं परिपालनाय तस्मै नमोऽस्तु सततं हि यथार्थनाम्ने॥
3
सत्कुङ्कुमात्तमरुणाङ्कसमानवर्णं द्वात्रिंशलक्षणविभूषितगात्रशोभम्। सर्वेषु यस्य करुणामयवत्सलत्वं तस्मै नमामि भवते करुणामयाय॥
4
संसारसागरमहालयनाशदक्ष एकस्त्वमेव शरणं भुवि नैकनाथ। केनापि त्वद्गुणगणा गणने न शक्यास्तं लोकनाथमवलोकितनामसंज्ञम्॥
5
नानाविधाभरणमण्डितदिव्यरूपं बालेन्दुलग्नजटभूषितलोकनाथम्। वामे च मण्डलधरं वरदं च सव्ये त्वां लोकनाथ शरणं प्रव्रजामि नित्यम्॥
6
ब्रह्मादिभिः परिवृतं सुरसिद्धसङ्घैर्गन्धर्वकिन्नरमहोरगनागयक्षैः। नाथस्य यस्य भवतश्चरणाम्बुजं च तं लोकनाथचरणं शरणं व्रजामि॥
7
भूतैः पिशाचगरुडोरगराक्षसीभिः कुम्भाण्डपूतनमहल्लकराजराजैः। वैश्वानरासुरशतैः परिवारभूतं तं लोकनाथचरणं शरणं गतोऽस्मि॥
8
अब्धिर्दिवाकरकरैर्नहि शोषमेति तद्वत्कवीश्वरशतैर्गुणसागरस्ते। लोकेश्वर प्रथितकीर्तिनिधानभूतो न क्षीयते गुणनिधिर्गुणसागरस्य॥
9
श्लोकाष्टकं प्रतिदिनं खलु ये पठन्ति ते प्राप्नुवन्ति सहसा धनपुत्रमोक्षान्। कुष्ठादिरोगनिकरं क्षमतां प्रयाति वन्दामहे च नितरां तव पादयुग्मे॥
10
इति श्री आर्यावलोकितेश्वरस्य श्लोकाष्टकं सम्पूर्णम्॥