Shri Jyeshthamba Ashtakam
Ashtakam
1
ज्येष्ठाम्ब ते चरणकञ्जयुगस्य सेवां त्यक्त्वाशया जगति सन्ति वरान्यदेव्यः। इत्याश्रयेन सततं परिसेवितास्ताः प्राप्तो मयात्र नहि काणवराट कोऽपि॥
2
ज्येष्ठाम्ब सेवनमिदं परदेवतानां अज्ञानमेव मम सम्प्रति वेद्मि तत्त्वम्। अज्ञानतः करगतं मणिमय्युपेक्ष काचे मणि भ्रमयुतस्य गतिर्ममासीत्॥
3
ज्येष्ठाम्ब ते भुविजना सततं दरिद्रा देवीति नां कथयन्ति न ते यथार्थम्। जानन्ति केवलधनेषण तत्परास्ते दारिद्र्यमेव किल ब्रह्मविचारदक्षम्॥
4
ज्येष्ठाम्ब ते करुणया मम कल्पितं त दारिद्र्यमेव भुवि भोगपरम्परासु। स्वर्गादि भोगबहुशेऽपि विरागबुद्धि- मुत्पाद्य मेऽदद दलं सुखमद्वितीयम्॥
5
ज्येष्ठाम्ब युष्मदनुजा शपथं त्वया श्रीः कृत्वा दरिद्रमधुना धनिकं करोमि। इत्याग्रहात्वयमलं विनियुज्यशक्तिं व्यर्थाग्रहा सपदि सा शरणं गता त्वाम्॥
6
ज्येष्ठाम्ब ते शृति समिरितमित्यलक्ष्मि- र्मामास्ति लोकविदितं खलु गूढतत्त्वम्। अध्यक्षर त्यज महेश्वरविष्णुरूपं ब्रह्मप्रभोधकमकारमनुत्तरं च॥
7
ज्येष्ठाम्ब सर्वविदिता किल विष्णुपत्नी लक्ष्मी रति त्वदनुजेति न तेऽपि लक्ष्मा। भेदोऽस्ति किञ्चिदपि नेत्रनिमीलनात्ते उन्मीलनाच्च भुवि नाम तथा द्विभासीत्॥
8
ज्येष्ठाम्ब तेऽक्षि युगलं यदि मीलितं स्वा त्वां ते तदा बुधजनाः कथयन्त्यलक्ष्मीम्। उन्मीलितं यदि तदा प्रवदन्ति लक्ष्मी- मेकैव मूर्तिरभवद्विविदं तु नामम्॥
9
ज्येष्ठाम्बाष्टकमष्टकष्टहरणं यो वा पठेनिष्ठया अष्टैश्वर्यमुपेत्य सम्प्रति विनष्टान्योन्य भेदभ्रमः किं चाद्वैतविमर्शसर्वसमतायुक्तो विशुद्धाशयः। ब्रह्मात्मैकमपि प्रयागि सहसा ज्येष्ठाम्बिकानुग्रहात् श्रीमत्सर सुखानन्दनाथस्य चरणार्थिना श्रीयानन्देन कथितं ज्येष्ठाम्बायाः पराष्टकम्॥