Shrimad Radhashtakam
Ashtakam
1
निकुञ्जे मञ्जूषद्विविधमृदुपुष्पैकनिचयैः समाकीर्णं दान्तं सुमणिजटितं केलिशयनम्। हृदि प्रादुर्भूतोद्भटविरहभावैः सपदि यत् करे कृत्वा पत्रव्यजनमुपविशन्तीं हृदि भजे॥
2
विदित्वा गोपीशं श्रमविहितनिद्रं हृदि भिया रणत्कारैर्भूयान्न खलु गतनिद्रः परमिति। द्वितीयेन स्तब्धाचलनचपलं कङ्कणचयं वितन्वन्तीं मन्दं व्यजनमथ राधां हृदि भजे॥
3
विधायाच्छैः पुष्पैर्विविधरचनां चारुमृदुलां पदप्रान्तालम्बां स्वकरकमलाभ्यां पुनरसौ। स्थितं स्वप्राणानां प्रियतममनन्यं निजपुरो- ऽवगत्यातन्वन्तीमुरसि वनमालां हृदि भजे॥
4
पुरा रासारम्भे शरदमलरात्रिष्वपि हरि- प्रभावाद्युल्लीढस्मरणकृतचिन्ताशतयुताम्। हृदि प्रादुर्भूतं बहिरपि समुद्वीक्षितुमिव स्वतो वारं वारं विकसितदृगब्जां हृदि भजे॥
5
विचिन्वन्तीं नाथं निरतिशयलीलाकृतिरतं प्रपश्यन्तीं चिह्नं चरणयुगसम्भूतमतुलम्। प्रकुर्वन्तीं मूर्धन्यहह पदरेणूत्करमपि प्रियां गोपीशस्य प्रणतनिजनाथां हृदि भजे॥
6
निजप्राणाधीशप्रसभमिलनानन्दविकस- त्समस्ताङ्गप्रेमोद्गतमतनुरोमावलिमपि। स्फुरत्सीत्कारान्तःस्थितसभयभावैकनयनां पुनः पश्चात्तप्तामतुलरसपात्रं हृदि भजे॥
7
लसद्गोपीनाथाननकमलसंयोजितमुखां मुखाम्भोधिप्रादुर्भवदमृतपानैकचतुराम्। परीरम्भप्राप्तप्रियतमशरीरैक्यरसिकां तृतीयार्थप्राप्तिप्रकटहरिसिद्धिं हृदि भजे॥
8
न मे वाञ्छ्यो मोक्षः श्रुतिषु चतुरात्मा निगदितो न शास्त्रीया भक्तिर्न पुनरपि विज्ञानमपि मे। कदाचिन्मां स्वामिन्यहह मयि दासे कृपयतु स्वतः स्वाचार्याणां चरणशरणे दीनकरुणा॥