Shadanana Ashtakam

Ashtakam

1

ॐ श्रीगणेशाय नमः। नमोऽस्तु वृन्दारकवृन्दवन्द्य- पादारविन्दाय सुधाकराय। षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय॥

2

नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम्। दात्रे रतानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य॥

3

अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय। आपारपारयपारपराय नमोऽस्तु तुभ्यं शिखिवाहनाय॥

4

नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय। हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे॥

5

तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय। सदाकुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः॥

6

नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये। बालाय चापारपराक्रमाय षाण्मातुरायालमनातुराय॥

7

मीढुष्ठमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय। नमोऽस्तु ते जन्मजरादिकाय नमो विशाखाय सुशक्तिपाणये॥

8

सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय। स्वाहेय गाङ्गेय च कार्तिकेय शैलेय तुभ्यं सततन्नमोऽस्तु॥