Shri Muralidhara Gopala Ashtakam

Ashtakam

1

%४६ नमामि गोपिकाकान्तं द्विभुजं मुरलीधरम्। शोणाधरं गिरिधरं भक्तदुःखहरं हरिम्॥

2

सतोयमेघद्युतिगर्वहारिस्फुरद्युतिः स्मर्तृभयापहारि। कृष्णाय भूम्ने कमलावराय नमोऽस्तु तस्मै मुरलीधराय॥

3

यो भूमिभारव्यपनुत्तयेऽत्र ब्रह्मादिदेवार्थित एव पुत्रः। बभूव भुव्यानकदुन्दुभेर्यो नमोऽस्तु तस्मै मुरलीधराय॥

4

अपाययत्स्तन्यमिषाद्विषं या तस्यै ददौ मात्रुचितां गतिं यः। कारुण्यसिन्धुर्निहितासुराय नमोऽस्तु तस्मै मुरलीधराय॥

5

गाश्चारयन्गोपकुमारयुक्तः सुरद्विषोऽहन्निजकार्यसक्तः। भक्तप्रियो यो दिविषिद्वराय नमोऽस्तु तस्मै मुरलीधराय॥

6

यद्वेणुशब्दश्रवणेन सद्यो ह्यचेतनं चेतनतां परं च। तथान्यभावं प्रगतं पराय नमोऽस्तु तस्मै मुरलीधराय॥

7

व्याजेन भर्तृत्वमितं विवर्णं त्यक्त्वा सती दग्धतनुर्बभूव॥

8

वेणुर्यदोष्ठामृतभाक्पराय नमोऽस्तु तस्मै मुरलीधराय॥

9

गोपालाय नमस्तुभ्यमपराधान्क्षमस्व मे। कृपां कुरु दयासिन्धो सर्वान्कामान्प्रपूरय॥

10

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीमुरलीधरगोपालाष्टकं सम्पूर्णम् ।॥