svasvAmiyugalAShTakam
Ashtakam
1
आसातामेकशरणे विहिताकरणे हृदि। स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा॥
2
कृपां प्रकुरुतां दीने स्वत एक कृपाकरौ। स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा॥
3
प्रसीदेतां मयि श्रीमद्व्रजेशचरणाश्रये। स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा॥
4
दास्यं प्रयच्छतां मह्यं समस्तफलमूर्धगम्। स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा॥
5
कदाऽपि मामनन्यं मा त्यजेतां निजसेवकम्। स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा॥
6
प्रमेयबलमात्रेण गृह्णीतां मत्करं दृढम्। स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा॥
7
आर्तिं निवारयेतां मे मस्तके हस्तधारणैः। स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा॥
8
मन्मूर्धनि विराजेतां प्रभू लोकविलक्षणौ। स्वामिनौ वल्लभाधीशाविठ्ठलेशाभिधौ मम॥