Shri Kubacharyapranitam Shrirama Ashtakam
Ashtakam
1
(श्रीकेवलरामाचार्य) निखिललोकतनुं मतिभक्तिगं श्रुतिशिरःपरिगीतसुकीर्तिकम्। तनुभृतां कृतकर्मसुसाक्षिणं मनसि राममिनं सुधियं स्तुवे॥
2
निगममार्गसभूतिकृते सदा मनुजदेहधृतं निजमायया। मुनिपराशरपुत्रकृतेषु शं वहलसुन्दरसूत्रचयेषु यः॥
3
विमलभाष्यकरः सदनात्मजो भुवि सुभूय निषेध्यगुणच्युतम्। निजजनाय दयोदधिकं न्वभूज्जगति सर्वगतं परिणौमि तम्॥
4
स्वशरणागतजीवसुरद्रुमं निशिचराग्निजलं प्रतिभायुतम्। अवधधामविहारपरायणं निगमनिः श्वसनं करुणागृहम्॥
5
सदसि राजशिरोमणिवन्दितं शुभयशःकृतगोतलधौतकम्। बहुशिरःकरपादविराजितं विधुदिवामणितोऽधिकभासुरम्॥
6
विपुलशक्तिभुवं ह्यवतारिणं विधिशिवादिनुतं जनमुक्तिदम्। प्रणिपतामि हरिं जगदीश्वरं त्रिविधतापमहोदधिकुम्भजम्॥
7
अरण्यं घनं शोधयन्तं यतीशं त्रिलोकस्य जन्मादिहेतुं वरेण्यम्। परब्रह्मसंज्ञं प्रभुं राममीड्यं स्तुवे नित्यमूर्त्तिं तु कूवार्यवर्यः॥
8
शुभे झीथडापत्तनेलब्धरामः सदाऽऽनन्दभाष्यम्पठन् सत्प्रतिज्ञम्। अबोधान्धकाराय भानुं दयालुं भवाब्धौनुडन्तं जनं रक्षयन्तम्॥