Vishnudevashtakam
Ashtakam
1
श्रिया जुष्टं तुष्टं श्रुतिशतनुतं श्रीमधुरिपुं पुराणं प्रत्यञ्चं परमसहितं शेषशयने। शयानं यं ध्यात्वा जहति मुनयः सर्वविषया- स्तमीशं सद्रूपं परमपुरुषं नौमि सततम्॥
2
गुणातीतो गीतो दहन इव दीप्तो रिपुवने निरीहो निष्कायः परमगुणपूगैः परिवृतः। सदा सेव्यो वन्द्योऽमरसमुदयैर्यो मुनिगणै- स्तमीशं सद्रूपं परमपुरुषं नौमि सन्ततम्॥
3
विभो! त्वं संसारस्थित-सकलजन्तूनवसि यत्- त्रयाणां रक्षायै ननु वरद पद्मेश जगताम्। ददौ चक्रं तस्मात्परमदयया ते पशुपति- स्ततः शास्त्रं ``विश्वम्भर''इति पदेन प्रगिरति॥
4
सदा विष्णो ! दीने सकलबलहीने यदुपते हताशे सर्वात्मन् मयि कुरु कृपां त्वं मुररिपो। यतोऽहं संसारे तव च रणसेवा-विरहितो न मे सौख्यं चेत्स्याद् भवति वितथं श्रीश ! सकलम्॥
5
यदीत्थं त्वं ब्रूया भजननिपुणान् यामि सततं प्रभो भक्ता भक्त्या सकलसुखभाजो न कृपया। वद प्रोत्तुङ्गा या तव खलु कृपा कुत्र घटते कथं वा भो स्वामिन् ! पतितमनुजोद्धारक इति॥
6
मया शास्त्रे दृष्टं गुरुजनमुखाद् वा श्रुतमिदं कृपा विष्णोर्वन्द्या पतितमनुजोद्धारनिपुणा। अतस्त्वां संप्राप्तः शरणद ! शरण्यं करुणया श्रिया हीनं दीनं मधुमथन ! मां पालय विभो॥
7
न चेल्लक्ष्मीजाने सकलहितकृच्छास्त्रनिचयो मृषारूपं धत्ते भवति भवतो हानिरतुला। तवाऽस्तित्वं शास्त्रन्नहि भवति शास्त्रं यदि मृषा विचारोऽयं चित्ते मम भवपते श्रीधर हरे॥
8
न ते स्वामिन् विष्णो कुरु मयि कृपां कैटभरिपो स्वकीयं वाऽस्तित्त्वं जहि जगति कारुण्यजलधे। द्वयोर्मध्ये ह्येकं भवति करणीयं तव विभो कथाः सर्वाः सर्वाश्रय तव पुरस्कृत्य विरतः॥
9
विष्णुदेवाष्टकं स्तोत्रं यः पठेद् भक्तितो नरः। सर्वान् कामानवाप्नोति लक्ष्मीजानेः प्रसादतः॥