vallabhabhAvAShTakam
Ashtakam
1
पतिः श्रीवल्लभोऽस्माकं गतिः श्रीवल्लभः सदा। मतिः श्रीवल्लभे ह्यस्तां रतिः श्रीवल्लभेऽस्तु मे॥
2
वृत्तिः श्रीवस्त्वभीयैव कृतिः श्रीवल्लभार्थिनी। दर्शनं श्रीवल्लभस्य स्मरणं वल्लभप्रभोः॥
3
त्वत्प्रसादसुधाघ्राणं त्वदुच्छिष्टरसाग्रहः। श्रवणं त्वद्गुणानां हि स्मरणं त्वत्पदाब्जयोः॥
4
गृणनं तन्महित्वस्य सेवनं करयोर्भवेत्। त्वत्स्वरूपान्तरो भोगो गमनं तव सन्निधौ॥
5
त्वदग्रे सर्वदा स्थानं सङ्गस्त्वत्सेवकैः सदा। त्वद्वार्ताऽतिरुचिर्निष्ठा भूयात्त्वद्वाक्यमात्रगा॥
6
श्रद्धा त्वदेकसम्बधे विश्वासस्त्वत्पदाब्जयोः। दास्यं त्वदीयमेवास्तु भूयात्त्वच्चरणाश्रयः॥
7
मस्तके श्रीवल्लभोस्तु हृदि तिष्ठतु वल्लभः। अभितः श्रीवल्लभोऽस्तु सर्वं श्रीवल्लभो मम॥
8
नमः श्रीवल्लभायैव दैन्यं श्रीवल्लभे सदा। प्रार्थना श्रीवल्लभेऽस्तु तत्पदाधीनता मम॥
9
एतदष्टकपाठेन श्रीवल्लभपदाम्बुजे। भवेद्भावो विनाऽऽयासं भक्तिमार्गवतात्मनाम्॥