Shri Subrahmanya Ashtakam
Ashtakam
1
नन्दनं तुहिनशैलजापतेर्नन्दनीयचरितं षडाननम्। सुन्दराङ्गमखिलार्तिभञ्जनं भावयाम्यखिलरोगशान्तये॥
2
शूरपद्ममुखदैत्यमर्दनं क्रूरभोगिविषनाशनं गुहम्। वीरबाहुमुखवीरसेवितं भावयाम्यखिलरोगशान्तये॥
3
आश्रिताखिलजनावनोद्यतं सुश्रिताधननिवृत्तितत्प्रियम्। आश्रितस्वजनहृन्निकेतनं भावयाम्यखिलरोगशान्तये॥
4
चारुषण्मकुटमण्डिताननं दारुणाखिलजगद्विकृन्तनम्। वारणाननसुहृत्सहोदरं भावयाभ्यखिलरोगशान्तये॥
5
इन्द्रजापतिमुमातनूद्भवं चन्द्रकोटिसदृशद्युतिं शुभम्। इन्द्र पूर्वसुरवृन्दवन्दितं भावयाम्यखिलरोगशान्तये॥
6
अम्बिकावदनपद्मभास्करं बिम्बपक्तफलसुन्दरावरम्। तं बिलेशयरूपधारिणं भावयाम्यखिलरोगशान्तये॥
7
भक्तपालपरिपालनोद्यतं त्यक्तदुष्टजनमिष्टसिद्धिदम्। युक्तमार्गनिरतप्रियं सदा भावयाम्यखिलरोगशान्तये॥
8
सत्यचिद्धनमुदारविक्रमं नित्यमग्र्यमखिलेश्वरं प्रभुम्। भृत्यहृत्तिमिरसन्धभञ्जनं भावयाम्यखिलरोगशान्तये॥
9
नित्यमेव हृदि षण्मुखं स्मरन् यः पठेदिदमनन्यमानसः। रोगनाशनकरं स मानुषः सर्वरोगरहितः सुखी भवेत्॥
10
इति श्रीसुब्रह्मण्याष्टकं सम्पूर्णम्। Proforead by Sivakumar Thyagarajan Iyer॥