Shri Agastyesha Lingashtakam
Ashtakam
1
श्रीमत्पर्वतपुत्रिकाश्रितलसद्वामाङ्गमिन्दूज्ज्वल- त्कोटीरं कनकाद्रिकार्मुकधरं कल्पद्रुमालावली- सक्तोरःस्थलमन्तकान्तकमनन्ताहीन्द्रसद्भूषणं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे॥
2
भक्ताभीष्टफलप्रदं भवहरं पापौघविच्छेदनं शक्राद्यष्टदिगीशसन्नुतपदं शुम्भद्गणाधीश्वरम्। गङ्गोत्तुङ्गतरङ्गिणीयुतजटाजूटं मुनीन्द्रार्चितं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे॥
3
मार्कण्डेयमुनीन्द्ररक्षणमजं मृत्युञ्जयं शाश्वतं मत्तामर्त्यविरोधिगर्वनगरीदम्भोलिधारायितम्। वित्ताधीशसखं वियत्तललसत्केशं त्रिलोकेश्वरं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे॥
4
भूम्यापोऽग्निसमीरणा(प्रभञ्जना)म्बरलसत्सोमार्कयज्वा(स्वात्मा)भिधै- रष्टैरिष्टवरप्रदानचतुरैः स्पष्टैः स्वरूपैः सदा। भास्वन्तं जगतीतले गजहरं कर्पूरगौरं शिवं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे॥
5
सूर्याग्नीन्दुविलोचनं सुरवरं फालाग्निभस्मीकृत- प्रद्युम्नं परमेश्वरं गुरुवरं कालाग्निरुद्रं हरम्। कण्ठाकल्पविलासभासुरमहाहालाहलं शङ्करं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे॥
6
श्रीमद्भूमिरथं विरिञ्चिविलसत्सूतं नगाधीशस- च्चापं विष्णुशरं रथाङ्गयुगलीभूतार्कचन्द्रं शिवम्। पूर्वामर्त्यपुरत्रयान्तकरणोद्युक्तं शिवालिङ्गितं श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे॥
7
दक्षाक्षुद्रमखागतामरगणान् तत्रत्यऋत्विग्वरान् चन्द्रं तच्छ्वशुरं भगं मुनिगणानग्निं च दक्षं लसत्। स्वेदोद्भूतविनीलदेहरुचिना वीरेण सन्त्रासितं(त्रासकं) श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे॥
8
श्रीलक्ष्मीशविरिञ्चिपूजितपदं शुम्भत्त्रिशूलायुधं श्रीमद्भृङ्गिकुमारनन्दिगणपश्रीवीरभद्रादिभिः। सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे॥
9
श्रीकोप्पराजकुलवार्धिनिशाकरेण स्तोत्रं कृतं जगति सुब्बयनामभाजा- गस्त्येश्वरस्य निजभक्तजनावनस्य यो वै पठेल्लभति सोऽपि सदा विमुक्तिम्॥
10
इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम्॥