shrIvallabhAShTakam 1

Ashtakam

1

श्रीमद्वृन्दावनेन्दुप्रकटितरसिकानन्दसन्दोहरूप- स्फूर्जद्रासादिलीलाऽमृतजलधिभराक्रान्तसर्वोऽपि शश्वत्। तस्यैषात्मानुभावप्रकटनहृदयस्याज्ञया प्रादुरासीद्- भूमौ यः सन्मनुष्याकृतिरतिकरुणस्तं प्रपद्ये हुताशम्॥

2

नाविर्भूयाद्भवांश्चेदधिधरणितलं भूतनाथोदितास- न्मार्गध्वान्तान्धतुल्या निगमपथपतौ देवसर्गेऽपि जाताः। घोषाधीशं तदेमे कथमपि मनुजाः प्राप्नुयुर्नैव देवी- सृष्टिर्व्यर्था च भूयान्निजफलरहिता देववैश्वानरैषा॥

3

न ह्यन्यो वागधीशाच्छ्रुतिगणवचसां भावमाज्ञातुमीष्टे यस्मात्साध्वी स्वभावं प्रकटयति वधूरग्रतः पत्युरेव। तस्माच्छ्रीवल्लभाख्य त्वदुदितवचनादन्यथा रूपयन्ति भ्रान्ता ये ते निसर्गत्रिदशरिपुतया केवलान्धन्तमोगाः॥

4

प्रादुर्भूतेन भूमौ व्रजपतिचरणाम्भोजसेवाख्यवर्त्म- प्राकट्यं यत्कृतं ते तदुत निजकृते श्रीहुताशेति मन्ये। यस्मादस्मिंस्थितो यत्किमपि कथमपि क्वाप्युपाहर्तुमिच्छ- त्यद्धा तद्गोपिकेशः स्ववदनकमले चारुहासे करोति॥

5

उष्णत्वैकस्वभावोऽप्यतिशिशिरवचःपुञ्जपीयूषवृष्टी- रार्तेष्वत्युग्रमोहासुरनृषु युगपत्तापमप्यत्र कुर्वन्। स्वस्मिन् कृष्णास्यतां त्वं प्रकटयसि च नो भूतदेवत्वमेत- द्यस्मादानन्ददं श्रीव्रजजननिचये नाशकं चासुराग्नेः॥

6

आम्नायोक्तं यदम्भोभवनमनलतस्तच्च सत्यं विभोर्य- त्सर्गादौ भूतरूपादभवदनलतः पुष्करं भूतरूपम्। आनन्दैकस्वरूपात्त्वदधिभु यदभूत्कृष्णसेवारसाब्धि- श्चानन्दैकस्वरूपस्तदखिलमुचितं हेतुसाम्यं हि कार्ये॥

7

स्वामिच्छ्रीवल्लभाग्ने क्षणमपि भवतः सन्निधाने कृपातः प्राणप्रेष्ठव्रजाधीश्वरवदनदिदृक्षार्तितापो जनेषु। यत्प्रादुर्भावमाप्नोत्युचिततरमिदं यत्तु पश्चादपीत्थं दृष्टेऽप्यस्मिन्मुखेन्दौ प्रचुरतरमुदेत्येव तच्चित्रमेतत्॥

8

अज्ञानाद्यन्धकारप्रशमनपटुताख्यापनाय त्रिलोक्या- मग्नित्त्वं वर्णितं ते कविभिरपि सदा वस्तुतः कृष्ण एव। प्रादुर्भूतो भवानित्यनुभवनिगमाद्युक्तमानैरवेत्य त्वां श्रीश्रीवल्लभे मे निखिलबुधजना गोकुलेशं भजन्ते॥