Saukhyashtakam
Ashtakam
1
निरर्गल-समुन्मिषन्नव-नवानुकम्पामृत- प्रवाह-रस-माधुरी-मसृण-मानसोल्लासिनि। नमज्जन-मनोरथ-प्रणयनैक-दीक्षाव्रते ! निधेहि मम मस्तके चरण-पङ्कजं तावकम्॥
2
नमन्मृड-जटाटवी-गलित-गाङ्ग-तोय-श्रिते ! स्पुरन्मधुर-विग्रह-प्रचुर-कान्ति-सन्दानिते। सुसौरभ-करम्बिते ! त्रिपुरवैरि-सीमन्तिनि ! त्वदीय-पद-पङ्कजे मम मनो मिलिन्दायताम्॥
3
उदञ्चय- दृगञ्चलं, रचय सान्द्रसान्द्रां दयां विकासय निजं पदं, विघटयाशु दुःख-त्रयम् ! अये ! प्रकटयाधुना विधुत-तर्क-जालामल- प्रबोध-रस-माधुरीं विविध-मङ्गलारम्भिणि !॥
4
त्वयैव जगदङ्कुरो भवन-विक्रियां नीयते किमित्यपर-कल्पना तदुदरान्तरालम्बिनी। अनन्य-सदृश-क्रिये!भगवतीं विहायाहकं कथं कथय चेतनः शश-विषाणमाप्तुं यते॥
5
भवेद्यदि जपावनी सरिदुदञ्चदर्कच्छटा- स्फुटारुणिम-मज्जिमा मसृण-लोहितेहाब्जिनी। कथञ्चन तदा मनो जननि ! तावकाङ्ग-प्रभा- श्रियं तुलयितुं व्रजेत्तदपि तस्य कापेयकम्॥
6
निसर्ग-मधुराकृते गिरिश-नेत्र-राकायिते ! नवावृति-चमत्कृते ! परिलसत्-सपर्याकृते। मयाद्य मनसा धृतेऽचिरय मातरुद्यद्दया- सुधा-ह्रद-निमज्जनाकरण-केलि-सीमायते॥
7
महेश्वर-परिग्रहे ! स्तुति-परायणानुग्रहे ! महास्पुरण-विग्रहे निरय-यातना-निग्रहे !। प्रसीद सुख-सङ्ग्रहे ! प्रणत-दुःख-भङ्गाग्रहे ! विनाशित-महाग्रहे ! विमल-भक्ति-योग-ग्रहे !॥
8
महाभय-निवारिणी, सकल-शोक-संहारिणी, भवाम्बु-निधि-तारिणी, दुरित-जात-विद्राविणी। अहम्मति-विदारिणी, पतित-मण्डलोद्धारिणी, ममान्तर-विहारिणी, भवतु सौख्यसञ्चारिणी॥