Shri Krishnanamashtakam
Ashtakam
1
निखिलश्रुतिमौलिरत्नमाला द्युतिनीराजितपादपङ्कजान्त। अयि मुक्तकुलैरुपास्यमानं परितस्त्वां हरिनाम संश्रयामि॥
2
जय नामधेय मुनिवृन्दगेय हे जनरञ्जनाय परमाक्षराकृते। त्वमनादरादपि मनाग् उदीरितं निखिलोग्रतापपटलीं विलुम्पसि॥
3
यदाभासोऽप्युद्यन् कवलितभवध्वान्तविभवो दृशं तत्त्वान्धानामपि दिशति भक्तिप्रणयिनीम्। जनस्तस्योदात्तं जगति भगवन्नामतरणे कृती ते निर्वक्तुं क इह महिमानं प्रभवति॥
4
यद् ब्रह्मसाक्षात्कृतिनिष्ठयापि विनाशमायाति विना न भोगैः। अपैति नाम स्फुरणेन तत् ते प्रारब्धकर्मेति विरौति वेदः॥
5
अघदमनयशोदानन्दनौ नन्दसूनो कमलनयनगोपीचन्द्रवृन्दावनेन्द्राः। प्रणतकरुणकृष्णावित्यनेकस्वरूपे त्वयि मम रतिरुच्चैर्वर्धतां नामधेय॥
6
वाच्यो वाचकमित्युदेति भवतो नाम स्वरूपद्वयं पूर्वस्मात् परमेव हन्त करुणा तत्रापि जानीमहे। यस्तस्मिन् विहितापराधनिवहः प्राणी समन्ताद् भवेद् आस्येनेदमुपास्य सोऽपि हि सदानन्दाम्बुधौ मज्जति॥
7
सूदिताश्रितजनार्तिराशये रम्यचिद्घनसुखस्वरूपिणे। नाम गोकुलमहोत्सवाय ते कृष्णपूर्णवपुषे नमो नमः॥
8
नारदवीणोज्जीवनसुधोर्मिनिर्यासमाधुरीपूर। त्वं कृष्णनाम कामं स्फुर मे रसने रसेन सदा॥
9
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीनामाष्टकं सम्पूर्णम् ।॥