Vasudevasuta Ashtakam

Ashtakam

1

वनमालयुतं स्मितहास्यरतं मृदुवासितकुञ्चितकेशयुतम्। सितचन्दनचर्चितभालतटं प्रणमामि हरिं वसुदेवसुतम्॥

2

घनगोपकदम्बवने वसितं शुभवेणुनिनादसुधाधरितम्। प्रणवाकृतिविग्रहधर्मरतं प्रणमामि हरिं वसुदेवसुतम्॥

3

नवनीरदकोमलशान्तियुतं नवचन्द्रमुखं नवनीतमुखम्। नवभास्करनिन्दितकान्तियुतं प्रणमामि हरिं वसुदेवसुतम्॥

4

शठदानवकंसविनाशकरं गजरक्षणतत्परचक्रधरम्। अहिराजविमर्दितविश्वनुतं प्रणमामि हरिं वसुदेवसुतम्॥

5

वृषभानुसुतावरमुग्धवचं रसराजकलेवरमञ्जुकचम्। कटिशोभितपीतदुकूलदृतं प्रणमामि हरिं वसुदेवसुतम्॥

6

वरदायकवैष्णवभक्तिधरं सुरनायककेशवरोगहरम्। मुनिमानसपङ्कजगन्धयुतं प्रणमामि हरिं वसुदेवसुतम्॥

7

कुरुपाण्डवमण्डितदण्डधरं विधिशङ्करवासवदर्पहरम्। यदुगौरवसौरभसर्वगतं प्रणमामि हरिं वसुदेवसुतम्॥

8

मम मानसमन्दिरलिङ्गपरं हरिनाथमहाप्रभुबुद्धवरम्। वरदानपरं गरहानकरं प्रणमामि हरिं वसुदेवसुतम्॥