Shri Nrisimhavadi Datta Paduka Ashtakam

Ashtakam

1

%१०८ (वृत्तगर्भम्) कृष्णावेणीपञ्चगङ्गायुतिस्थं श्रीपादं श्रीवल्लभं भक्तहृत्स्थम्। दत्तात्रेयं पादुकारूपिणं तं वन्दे विद्यां शालिनीं सङ्गृणन्तम्॥

2

उपेन्द्रवज्रायुधपूर्वदेवैः सपूर्वदेवैर्मुनिभिश्च गीतम्। नृसिंहसंज्ञं निगमागमाद्यं गमागमाद्यन्तकरं प्रपद्ये॥

3

परिहृतनतजूर्तिः स्वीयकामप्रपूर्ति- र्हृतनिजभजकार्तिः सच्चिदानन्दमूर्तिः। सदयहृदयवर्ती योगविच्चक्रवर्ती स जयति यतिराट् दिङ्मालिनी यस्य कीर्तिः॥

4

द्रुतविलम्बितकर्मविचारणा फलसुसिद्धिरतोऽमरभाग्जनः। अनुभवत्यकमेव तदुद्धृतौ हरिरिहाविरभूत्पदरूप्यसौ॥

5

विद्युन्मालातुल्या सम्पत्प्राङ्मध्यान्तेऽप्यस्या आपत्। तत्ते धार्यं ज्योतिर्नित्यं ध्याने मेऽस्तु ब्रह्मन्सत्यम्॥

6

त्रिद्वारं तव भवनं बहुप्रदीपं विघ्नेशामरपतियोगिनीमरुज्जैः। जाह्नव्यावृतमभितोऽन्नपूर्णया च स्मृत्वा मे भवति मतिः प्रहर्षिणीयम्॥

7

ततिं द्विजानां शिवसोपजातिं पुष्णाति कृष्णाऽत्र विनष्टतृष्णा। अवाक्प्रवाहाऽनुमताशिवाहा या साऽष्टतीर्था स्मृतिमेतु सार्था॥

8

कलौ मलौघान्तकरं करञ्जपुरे वरे जातमकामकामम्। चराचराद्यं भुवनावनार्थं क्षणे क्षणे सज्जनतानताङ्घ्रिम्॥

9

भुजङ्गप्रयाताद्गुणोत्थादिवास्माद् भवाद्भीत आगत्य न त्यक्तुमिच्छेत्। नृसिंहस्य वाट्यां प्रभो राजधान्यां स यायात्सुधन्यां गतिं लोकमान्याम्॥

10

इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तपादुकाष्टकं सम्पूर्णम् ।॥