Shri Matribhuminutyashtakam The Motherland – A Hymn of Homage
Ashtakam
1
श्रीविष्णुर्ममजीवनैकशरणो ब्रह्मा सुतो मे प्रियः पौत्रो मे शशिभूषणः पुरहरो मा भैष्ट भो ! भारताः !। (*) यूयं तादृशवंशजा मम सुता भावैक्यबोधोज्ज्वलाः इत्याघोषणशालिनीं भगवतीं श्रीमातृभूमिं भजे॥
2
इति पाठान्तरम्॥
3
श्रीवेदाः स्मृतयश्च शास्त्रनिचयो मामेव संसेवितुं राजन्त्यत्र सुपूतदिव्यचरितानुद्बोधयन्तः सदा। तस्माच्छोकमरं विहाय नितरां सेवध्वमार्याः प्रजाः ! (*) इत्याघोषणशालिनीं भगवतीं श्रीमातृभूमिं भजे॥
4
(*) नाहं केवलमृत्तिकोपलमयी भूरस्मि, नो वै जडा, गाङ्गं वारि मदीयमेव जननीस्तन्यात्मकं निस्तुलम्। (*) तस्मादेव नराः सुरासुरगणा मां मातरं मन्वते इत्याघोषणशालिनीं भगवतीं श्रीमातृभूमिं भजे॥
5
इति पाठान्तरम्॥
6
कश्मीरान्ध्रविदर्भकेरलजना वाङ्गाश्च वा मद्रगाः ! (*) नाभीदेषु जनिङ्गतास्तु सततं जानीत भो ! सत्तमाः !। साऽहं भारतभूमिरेव शरणं पुण्याय मोक्षाय वः इत्याघोषणशालिनीं भगवतीं श्रीमातृभूमिं भजे॥
7
(*) चातुर्वर्ण्ययुता जिनेन्द्रपथगाः सिक्खा मुनीन्द्रानुगाः ! कृश्चीनार्यमुहम्मदीयमता भो ! पारसीकादयः !। सर्वे मत्प्रियबान्धवाः सुकृतिनो धर्माध्वनीनाध्वगाः इत्याघोषणशालिनीं भगवतीं श्रीमातृभूमिं भजे॥
8
इति पाठान्तरम्॥
9
लोकाः सन्तु निरामयाः, प्रतिगृहं स्फूर्जन्तु धर्माण्यथो, अस्तु स्वस्तिमती निरीतिरखिला सम्पन्नसस्याऽवनिः। श्रेयःश्रेणिजुषो भवन्तु धरणीपालाः प्रजाः सन्ततम् इत्याघोषणशालिनीं भगवतीं श्रीमातृभूमिं भजे॥
10
श्रीमातृभूमेरेतद् वै पुण्यं दिव्यानुशासनम्। श्रुत्वावधार्य भूयास्त धन्या भारतभूसुताः !॥