Shri Krishnavarada Ashtakam

Ashtakam

1

परमानन्दसर्वस्वं पाशुपाल्यपरिष्कृतं चिरमास्वादयन्ती मे जृम्यतां चेतसिस्थितिः। (चेतस) दूरदूरमुपारुह्य पततामपि चान्तरा सकृदाक्रन्दनेनैव वरदः करदो भवेत्॥

2

मम चेतसि माद्यतो मुरारेः मधुरस्मेरमुपाध्वमाननेन्दुम्। कमनीयतनोः कटाक्षलक्ष्मीं कन्ययापि (कलयापि) प्रणतेनु(षु) कामधेनोः॥

3

वरदस्य वयं कटाक्षलक्ष्मीं वरयामः परमेण चापलेन। सकृदप्युपगम्य सम्मुखं सहसा वर्षति योषितोऽपि कामम्॥

4

जृम्भतां वो हृदये ? ? जगत्त्त्रयीसुन्दराः कटाक्षभराः। अम्भोदान् गगनचरानाह्वयमानस्य बालस्य॥

5

जृम्भन्तां वः करिगिरिजुषः कटाक्षच्छटा विभोर्मनसि। अम्भोधरमधःकृत्वा हषान् (हर्षात्स्वै) स्वरं शयानस्य॥

6

ब्रजजनवनितामदान्धकेलि- कलहकटाक्षावलक्षविभ्रमो वः। विहरतु हृदये विलाससिन्धु- र्मुहुरबिलङ्गितमुग्धशैशवश्रीः॥

7

वरवितरणकेलिधन्यधन्या मधुरतराः करुणाकटाक्षलक्ष्म्याः। करिगिरिसुकृताङ्कुरस्य कस्या- भिनववारिवहस्य विभ्रतां वः॥

8

इत्यष्टकं पुष्टरसानुबन्धं विनोदगोष्ठीसमये वियुङ्क्ताम्। व्रजाङ्गनानां कुचयोः करीन्द्र- शैलस्य मौलौ च मुहुर्विहर्ता॥

9

श्रीकृष्णलीलाशुकवाङ्मयीभि- रेवंविधाभिर्विबुधाहताभिः। पुष्णन्तु धन्याः पुनरुक्तहर्ष- मायूंषि पीयूषतरङ्गिणीभिः॥