Kamalajadayita Ashtakam with Meaning
Ashtakam
1
श्री गुरुभ्यो नमः॥
2
श्रीकमलजदयिताष्टकम्॥
3
शृङ्गक्ष्माभृन्निवासे शुकमुख-मुनिभिः सेव्यमानाङ्घ्रिपद्मे स्वाङ्गच्छायाविधूतामृतकर-सुरराड्वाहने वाक्सवित्रि। शम्भु-श्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम्॥
4
कल्पादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्म प्राबल्यं नेतुकामो यतिवरवपुषागत्य यां शृङ्गशैले। संस्थाप्यार्चां प्रचक्रे बहुविधनतिभिः सा त्वमिन्द्वर्धचूडा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम्॥
5
पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा- त्सम्पाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम्। देवाचार्यद्विजादिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम्॥
6
विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले विद्यादानप्रवीणे जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः। कामादीनान्तरान्मत्सहजरिपुवरान्देवि निर्मूल्य वेगात् विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम्॥
7
कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम्। सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम्॥
8
मातस्त्वत्पादपद्मं न विविधकुसुमैः पूजितं जातु भक्त्या गातुं नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः। मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम्॥
9
शान्त्याद्याः सम्पदो वितर शुभकरीर्नित्यतद्भिन्नबोधं वैराग्यं मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने। विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम्॥
10
सच्चिद्रूपात्मनो मे श्रुतिमनननिदिध्यासनान्याशु मातः सम्पाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ। तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम्॥
11
In this verse, the author informs us of how Sarasvati Devi was Installed in Shringa Giri. कल्यादौ = in the beginning of kali yuga; पार्वतीशः = Lord of Parvati i.e Lord Shiva; प्रवर-सुरगण-प्रार्थितः = was worshipped by hosts of eminent Gods; श्रौतवर्त्म-प्राबल्यं-नेतुकामो Lord Shiva who was desirous of reinforcing the Vedic path ( श्रौतवर्त्मप्राबल्यं = to reinforce the Vedic Path, way of life नेतुकामो = was desirous of - adj to pArvatIshaH Shiva) ; आगत्य = came यतिवरवपुषा = with the form of the best of Sannyasins i.e Lord Shiva assumed the body of Adi Shankaracharya ; यां शृङ्गशैले-संस्थाप्य Whom He installed on Shringa Giri प्रचक्रे अर्चाम् = performed poojas ; बहुविध-नुतिभिः = through various Stotras ; सा त्वमिन्द्वर्धचूडा (सा त्वम् इन्द्वर्ध-चूडा) = You are she who (who was installed on Shringa Giri) has a digit of the moon as an adornment on your hair ; सा त्वम् You are that (Sarasvati who has been installed) who has अर्धेन्दु = half-moon i.e a digit of the moon ; चूडा hair i.e as adornment on your hair) विद्यां = Vidya शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati devi सत्वरं = very fast/ speedily देहि = give मह्यम् = to me - अन्वयः कल्यादौ प्रवरसुरगणप्रार्थितः, श्रौतवर्त्मप्राबल्यं नेतुकामः, पार्वतीशः यतिवरवपुषा आगत्य, शृङ्गशैले यां संस्थाप्य, बहुविधनुतिभिः अर्चां प्रचक्रे, सा त्वमिन्द्वर्धचूडा (त्वम् असि)। हे कमलजदयिते। त्वं विद्यां च शुद्धां बुद्धिं च मह्यं सत्वरं देहि। ३ श्लोकः पापौघं ध्वंसयित्वा बहुजनि-रचितं किं च पुण्यालिमारा+ त्सम्पाद्यास्तिक्य-बुद्धिं श्रुति-गुरुवचनेष्वादरं भक्ति-दार्ढ्यम्। देवाचार्य-द्विजादिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलज-दयिते सत्वरं देहि मह्यम्॥
12
After glorifying Sharada Devi in the first two verses, now the author has a prayerful request to her asking for deep devotion and shradha/ faith. पापौघं = group of sins; ध्वंसयित्वा = having destroyed; बहु-जनि-रचितं = accumulated/created over several births; पुण्यालिमारात् = bundle of punyam immediately; पुण्य-आलिम् = bundle of punyam; आरात् = immediately/directly; सम्पाद्य = having accomplished, brought about, आस्तिक्यबुद्धिं - reverence and faith; श्रुतिगुरुवचनेष्वादरं = towards the words of the Veda and Guru; आदरम् = respect; भक्तिदार्ढ्यम् = strong/deep devotion; देवाचार्य-द्विजादिष्वपि = even towards Deva, Acharya and dvijadi/brahmanas. तावकीने मनुनिवहे = towards groups of mantras extolling you मनुनिवहे = of mantras; ( मनु = mantra; निवहे = groups) ; तावकीने thy/thine (extolling you) goes with मनुनिवहे ; नितान्तं = in a high degree / extraordinary विद्यां = Vidya शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati devi सत्वरं = very fast/ speedily देहि = give मह्यम् = to me अन्वयः हे कमलजदयिते। त्वं बहुजनिरचितं पापौघं ध्वंसयित्वा, किं च पुण्यालिम् आरात् सम्पाद्य, आस्तिक्यबुद्धिं च, श्रुतिगुरुवचनेषु आदरं च, देवाचार्यद्विजादिषु अपि, तावकीने मनुनिवहे च भक्तिदार्ढ्यं च, नितान्तं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि। ४ श्लोकः विद्या-मुद्राक्षमालामृतघट-विलसत्पाणि-पाथोजजाले विद्यादान-प्रवीणे जड-बधिर-मुखेभ्योऽपि शीघ्रं नतेभ्यः। कामादीनान्तरान्मत्सहज-रिपुवरान्देवि निर्मूल्य वेगात् विद्यां शुद्धां च बुद्धिं कमलज-दयिते सत्वरं देहि मह्यम्॥
13
कर्मसु In action/karma आत्म-उचितेषु = proper / appropriate for one's spiritual growth (also appropriate as per my duties and designation) स्थिरतर- धिषणां (add दत्वा from line 3)= give me deep conviction - स्थिरतर = deep-rooted, strong, धिषणां = intellect/conviction/knowledge/clear understanding ; तदर्थं = for implementing this good karma / karmayoga; देह-दार्ढ्यं = strength/ physical fitness of the body दीर्घं च आयुः = a sufficient long life ; र्यशश्च त्रिभुवन-विदितं and may you give me a fame which spreads all over यश = fame, त्रिभुवन = 3 lokas , विदितं = which extends to / is known पापमार्गात् = from the path of sin विरक्तिम् = let be disinclination/detachment सत्सङ्गं = company of the noble; सत्कथायाः श्रवणम् = listening to spiritual kathas/stories; सदा = always; देवि कृपाब्धे - O Devi, Ocean of mercy; दत्वा = having given me (all this); विद्यां = Vidya; शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati Devi सत्वरं = very fast/ speedily देहि = give मह्यम् = to me अन्वयः आत्मोचितेषु कर्मसु स्थिरतरधिषणां दत्वा तदर्थं देहदार्ढ्यं च दीर्घं आयुः च त्रिभुवनविदितं यशः च पापमार्गात् विरक्तिं सत्सङ्गं च सत्कथायाः श्रवणम् अपि दत्वा, हे कृपाब्धे, हे देवि, हे कमलजदयिते, सदा त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि। ६ श्लोकः मातस्त्वत्पादपद्मं न विविध-कुसुमैः पूजितं जातु भक्त्या गातुं नैवाहमीशे जडमति-रलसस्त्वद्गुणान्दिव्यपद्यैः। मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा विद्यां शुद्धां च बुद्धिं कमलज-दयिते सत्वरं देहि मह्यम्॥
14
मातः O Mother न = not; विविध-कुसुमैः = by different types of flowers; भक्त्या = with devotion; त्पादपद्मं = Your lotus feet; पूजितं = had been worshipped; जातु = at all/ever नैव अहम् ईशे गातुं = I am not capable of / talented of even singing त्वत्गुणान् your glories, (as a pooja) दिव्यपद्यैः = through divine hyms; जड-मति = dull-witted; अलसः = lazy; अपि = even मूके = Towards me who am dumb; सेवाविहिने = not done any service; अनुपम-करुणामर्भकेऽम्बेव कृत्वा = having had mercy on me like a mother with unparalleled / immeasurable compassion towards her child ( अनुपम-करुणाम् = incomparable compassion, अम्बा = mother ; अर्भके = towards a child , इव = like) विद्यां = Vidya; शुद्धां च बुद्धिं = and Chitta Shuddhi कमलजदयिते = O Sarasvati Devi सत्वरं = immediately/ very fast/ speedily देहि = give मह्यम् = to me अन्वयः हे मातः। त्वत्पादपद्मं जातु भक्त्या विविधकुसुमैः (मया) न पूजितम्। जडमतिः अलसः अहं त्वद्गुणान् दिव्यपद्यैः गातुं न एव ईशे। मूके, सेवाविहीने अपि, अर्भके अम्बा इव, अनुपमकरुणां कृत्वा, हे कमलजदयिते, मह्यं सदा त्वं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि। ७ श्लोकः शान्त्याद्याः सम्पदो मे वितर शुभकरीर्नित्यतद्भिन्नबोधं वैराग्यं मोक्षवाञ्छामपि लघु कलय श्री-शिवा-सेव्यमाने। विद्यातीर्थादि-योगिप्रवर-करसरोजात-सम्पूजिताङ्घ्रे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम्॥