Shri Ramastambhanacharya Ashtakam

Ashtakam

1

श्रीरामानन्दधर्मस्य त्रातारं राममन्त्रदम्। रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

2

वचःस्मम्भनकर्त्तारं वादाहवे च वादिनाम्। रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

3

योगिनां चाथ सिद्धानां जेतारं योगसिद्धिदम्। रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

4

पञ्चभिश्चाथ संस्कारैः श्रीवैष्णवत्वकारकम्। रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

5

यज्ञदानतपःकर्मशिक्षादक्षं तपस्विनम्। रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

6

रामभक्तिप्रवृत्तिभ्यां जनानां मोक्षदायकम्। रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

7

रहस्यत्रयवेत्तार सत्यादिगुणसागरम्। रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥

8

आनन्दभाष्यतत्त्वज्ञ वेदवेदान्तवेदिनम्। रामस्तम्भनमीडेऽहं द्वाराचार्यं जगद्गुरुम्॥