Chaitanyashtakam 1

Ashtakam

1

अथ श्रीचैतन्यदेवस्य प्रथमाष्टकं सदोपास्यः श्रीमान् धृतमनुजकायैः प्रणयितां वहद्भिर्गीर्वाणैर्गिरिशपरमेष्ठिप्रभृतिभिः। स्वभक्तेभ्यः शुद्धां निजभजनमुद्रामुपदिशन् स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम्॥

2

सुरेशानां दुर्गं गतिरतिशयेनोपनिषदां मुनीनां सर्वस्वं प्रणतपटलीनां मधुरिमा। विनिर्यासः प्रेम्णो निखिलपशुपालाम्बुजदृशां स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम्॥

3

स्वरूपं बिभ्राणो जगदतुलमद्वैतदयितः प्रपन्नश्रीवासो जनितपरमानन्दगरिमा। हरिर्दीनोद्धारी गजपतिकृपोत्सेकतरलः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम्॥

4

रसोद्दामा कामार्बुदमधुरधामोज्ज्वलतनु- र्यतीनामुत्तंसस्तरणिकरविद्योतिवसनः हिरण्यानां लक्ष्मीभरमभिभवन्न् आङ्गिकरुचा स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम्॥

5

हरे कृष्णेत्युच्चैः स्फुरितरसनो नामगणना कृतग्रन्थिश्रेणीसुभगकटिसूत्रोज्ज्वलकरः। विशालाक्षो दीर्घार्गलयुगलखेलाञ्चितभुजः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम्॥

6

पयोराशेस्तीरे स्फुरदुपवनालीकलनया मुहुर्वृन्दारण्यस्मरणजनितप्रेमविवशः। क्वचित् कृष्णावृत्तिप्रचलरसनोभक्तिरसिकः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम्॥

7

रथारूढस्यारादधिपदवि नीलाचलपते- रदभ्रप्रेमोर्मिस्फुरितनटनोल्लासविवशः। सहर्षं गायद्भिः परिवृततनुर्वैष्णवजनैः स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम्॥

8

भुवं सिञ्चन्नश्रुश्रुतिभिरभितः सान्द्रपुलकैः परीताङ्गो नीपस्तबकनवकिञ्जल्कजयिभिः। घनस्वेदस्तोमस्तिमिततनुरुत्कीर्तनसुखी स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम्॥

9

अधीते गौराङ्गस्मरणपदवीमङ्गलतरं कृती यो विश्रम्भस्फुरदमलधीरष्टकमिदम्। परानन्दे सद्यस्तदमलपदाम्भोजयुगले परिस्फारा तस्य स्फुरतु नितरां प्रेमलहरी॥

10

इति श्रीरूपगोस्वामिविरचितस्तवमालायां चैतन्याष्टकं प्रथमं सम्पूर्णम् ।॥