GangAShTakam | by Sage Valmiki

Ashtakam

1

मातः शैलसुता-सपत्नि वसुधा-श‍ृङ्गारहारावलि स्वर्गारोहण-वैजयन्ति भवतीं भागीरथीं प्रार्थये। त्वत्तीरे वसतः त्वदंबु पिबतस्त्वद्वीचिषु प्रेङ्खतः त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः॥

2

त्वत्तीरे तरुकोटरान्तरगतो गङ्गे विहङ्गो परं त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः। नैवान्यत्र मदान्धसिन्धुरघटासंघट्टघण्टारण- त्कारस्तत्र समस्तवैरिवनिता-लब्धस्तुतिर्भूपतिः॥

3

उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वाऽ- वारीणः स्यां जनन-मरण-क्लेशदुःखासहिष्णुः। न त्वन्यत्र प्रविरल-रणत्किङ्किणी-क्वाणमित्रं वारस्त्रीभिश्चमरमरुता वीजितो भूमिपालः॥

4

काकैर्निष्कुषितं श्वभिः कवलितं गोमायुभिर्लुण्टितं स्रोतोभिश्चलितं तटाम्बु-लुलितं वीचीभिरान्दोलितम्। दिव्यस्त्री-कर-चारुचामर-मरुत्संवीज्यमानः कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथी स्वं वपुः॥

5

अभिनव-बिसवल्ली-पादपद्मस्य विष्णोः मदन-मथन-मौलेर्मालती-पुष्पमाला। जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः क्षपित-कलिकलङ्का जाह्नवी नः पुनातु॥

6

एतत्ताल-तमाल-साल-सरलव्यालोल-वल्लीलता- च्छत्रं सूर्यकर-प्रतापरहितं शङ्खेन्दु-कुन्दोज्ज्वलम्। गन्धर्वामर-सिद्ध-किन्नरवधू-तुङ्गस्तनास्पालितं स्नानाय प्रतिवासरं भवतु मे गाङ्गं जलं निर्मलम्॥

7

गाङ्गं वारि मनोहारि मुरारि-चरणच्युतम्। त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम्॥

8

पापापहारि दुरितारि तरङ्गधारि शैलप्रचारि गिरिराज-गुहाविदारि। झङ्कारकारि हरिपाद-रजोपहारि गाङ्गं पुनातु सततं शुभकारि वारि॥

9

गङ्गाष्टकं पठति यः प्रयतः प्रभाते वाल्मीकिना विरचितं शुभदं मनुष्यः। प्रक्षाल्य गात्र-कलिकल्मष-पङ्क-माशु मोक्षं लभेत् पतति नैव नरो भवाब्धौ॥

10

इति वाल्मीकिविरचितं गङ्गाष्टकं सम्पूर्णम्॥