Shri Ramalinga Ashtakam
Ashtakam
1
वेदवृन्दवन्दितं वरेण्यरूपसुन्दरं धेनुदुग्धदोहफेनसन्निभं सदाशिवम्। ध्यानध्येयमप्रमेयमग्रणे(गण्)यमीश्वरं (श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम्॥
2
पञ्चवक्त्रमीदृशं भुजङ्गमेशवन्दितं भानुतारकेश्वरानलत्रिनेत्रधारिणम्। नागराजभूषणं विभूतिदेहधूसरं (श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम्॥
3
पार्वतीपयोधरप्रभाविहारलालसं क्रीडनाय शैलजार्धदेहभागभोगिनम्। उर्वशीमुखाभिरेव ताण्डवानुरञ्जितं (श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम्॥
4
घण्टिकात्रिशूलपाशयन्त्रराजधारिणं श्रीवसन्तभैरवादिसर्वरागरागिणम्। बिल्वरुज्य(रुच्य)पद्ममल्लिकादिपुष्पपूजितं (श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम्॥
5
नेत्रजातवेदसा प्रसूनपञ्चबाणहं दक्षयज्ञवेदगर्भ(?)मन्त्रतानुरञ्जितम्। श्रीहरं पुरापहं सुरावलीसुखप्रदं (श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम्॥
6
धूर्जटिं त्रिलोचनं मृडाह्वयं सदाशिवं सुन्दरं वृषाधिरूढमम्बयानुरञ्जितम्। शङ्करं कपर्दिनं महेश्वरं हरं शिवं (श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम्॥
7
ज्योतीरूपमिन्दुमौलिमङ्गलप्रदं हरं विश्वसृष्टिरक्षमीषणं महेश्वरं (रक्षणप्रणाशहेतुमीश्वरम्)। लिङ्गरूपमद्वयं(च)जाह्नवीतटी(जटा)धरं (श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम्॥
8
तथैव विश्वनाथमेव काशिकापुरे स्थितं श्रीगिरौ च मल्लिकार्जुनेश्वरं सुरेश्वरम्। तथैव नर्मदातटे त्रिशूलपाणिनं शिवं (श्री) रामलिङ्गमाद्यमीशमीश्वरं स्मराम्यहम्॥
9
रामलिङ्गाष्टकं पुण्यं यः पठेच्छिवसन्निधौ। शिवलोकमवाप्नोति शिवेन सह मोदते॥
10
इति श्रीरामलिङ्गाष्टकं सम्पूर्णम्॥