shrIvishvakarmAShTakam 2
Ashtakam
1
आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह। विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः॥
2
आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः। सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः॥
3
पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम्। धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः॥
4
विश्वात्मा भूतरूपेण नानाकष्टसंहारक। तारकानादिसंहाराद्विश्वकर्मन्नमोनमः॥
5
ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम्। लीलया रचितं येन विश्वरूपाय ते नमः॥
6
विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम्। सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः॥
7
निराभासाय नित्याय सत्यज्ञानान्तरात्मने। विशुद्धाय विदूराय विश्वकर्मन्नमोनमः॥
8
नमो वेदान्तवेद्याय वेदमूलनिवासिने। नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः॥
9
यो नरः पठते नित्यं विश्वकर्माष्टकमिदम्। धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम्॥