prayAgAShTakam

Ashtakam

1

श्रीगणेशाय नमः। मुनय ऊचुः सुरमुनिदितिजेन्द्रैः सेव्यते योऽस्ततन्द्रैर्गुरुतरदुरितानां का कथा मानवानाम्। स भुवि सुकृतकर्तुर्वाञ्छितावाप्तिहेतुर्जयति विजितयागस्तीर्थराजः प्रयागः॥

2

श्रुतिः प्रमाणं स्मृतयः प्रमाणं पुराणमप्यत्र परं प्रमा णम्। यत्रास्ति गङ्गा यमुना प्रमाणं स तीर्थराजो जयति प्रयागः॥

3

न यत्र योगाचरणप्रतीक्षा न यत्र यज्ञेष्टिविशिष्टदीक्षा। न तारकज्ञानगुरोरपेक्षा स तीर्थराजो जयति प्रयागः॥

4

चिरं निवासं न समीक्षते यो ह्युदारचित्तः प्रददाति च क्रमात्। यः कल्पिताथांर्श्च ददाति पुंसः स तीर्थराजो जयति प्रयागः॥

5

यत्राप्लुतानां न यमो नियन्ता यत्रास्थितानां सुगतिप्रदाता। यत्राश्रितानाममृतप्रदाता स तीर्थराजो जयति प्रयागः॥

6

पुर्यः सप्त प्रसिद्धाःप्रतिवचनकरीस्तीर्थराजस्य नार्यो नैकटयान्मुक्तिदाने प्रभवति सुगुणा काश्यते ब्रह्म यस्याम्। सेयं राज्ञी प्रधाना प्रियवचनकरी मुक्तिदानेन युक्ता येन ब्रह्माण्डमध्ये स जयति सुतरां तीर्थराजः प्रयागः॥

7

तीर्थावली यस्य तु कण्ठभागे दानावली वल्गति पादमूले। व्रतावली दक्षिणपादमूले स तीर्थराजो जयति प्रयागः॥

8

आज्ञापि यज्ञाः प्रभवोऽपि यज्ञाः सप्तर्षिसिद्धाः सुकृतानभिज्ञाः। विज्ञापयन्तः सततं हि काले स तीर्थराजो जयति प्रयागः॥

9

सितासिते यत्र तरङ्गचामरे नद्यौ विभाते मुनिभानुकन्यके। लीलातपत्रं वट एक साक्षात्स तीर्थराजो जयति प्रयागः॥

10

तीर्थराजप्रयागस्य माहात्म्यं कथयिष्यति। श‍ृण्वतः सततं भक्त्या वाञ्छितं फलमाप्नुयात्॥

11

इति श्रीमत्स्यपुराणे प्रयागराजमाहात्म्याष्टकं समाप्तम्॥