bhAratAShTakam
Ashtakam
1
हृदये भक्तिर्देहे शक्तिर्मम मुखे लसति भारतगीतम्। जय हे! जय हे! जय जय जय हे! गायामि सदा भारतगीतम्॥
2
सुन्दर-सु-सुशोभितराष्ट्रमसि, त्वं भासि रता त्वं भरतभृता। शुभकर्मकृते कल्याणमसि, दण्डोऽसि खरो दुष्कर्मकृते॥
3
न्यायश्च तथा दण्डश्च तथा, त्वं कर्मशुभं धर्मश्च तथा। हे भव्यतमे भारतभूमे, त्वं भूमितले विभुभासयुता॥
4
भारतमातः! उपजीव्या मे, आराध्या मे त्वं पूज्या मे। रक्ष्यासि मया वर्ध्यासि मया, कर्त्तव्यतया दृश्यासि मया॥
5
दृष्टिस्त्वमसि दर्शनमथ च, दृश्यं सर्वं खलु मे मातः। ननु दृश्यसेऽत्र-सर्वत्र मया, सर्वत्र मया त्वं ह्यनुभूता॥
6
अहमस्मि तवाधीनो मातस्त्वं चासि मया प्रमुदितवदना। त्वं भोरमसि मयि ते सत्त्वं, देही मम देहवतोऽसित्वम्॥
7
सुफलं सुभगं सुमधुरगीतं, विधिना रचितं कविना मुदितम्॥
8
धर्माश्रयभूतं कर्मपदं, भारतवर्षं भारतभूतम्॥
9
सङ्कल्पदृढ़ं नीत्वा हृदये, पश्यामि सदा भारतदेशम्। आयामि सदा पृच्छामि सदा, गच्छामि सदा भारतदेशम्॥
10
-- चन्द्रगुप्तभारतीयः॥