shrIgarvApahArAShTakam
Ashtakam
1
स्थूलं विलोक्य वपुरात्मभुवां समूहं जायां धनानि कुपथे पतितानि भूयः। किं तोषमेषि मनसा सकलं समाप्ते पुण्ये वृथा तव भविष्यति मूढबुद्धे॥
2
ईशं भजान्ध विनियुङ्क्ष्य बन्धनानि तत्र साधून्समर्च परिपूजय विप्रवृन्दम्। दीनान् दयायुतदृशा परिपश्य नित्यम् नेयं दशा तव दशाननतो विशिष्टा॥
3
धनानि सङ्गृह्य निगृह्य रसं विगृह्य निगृह्य लोकं परिगृह्य मोहे। देहं वृथा पुष्टमिमं विधाय न साधवो मूढ सभाजिताः किम्॥
4
न नम्रता कृष्णजनेऽतिकृष्णधने परं नैव दयातिदीने। कुटुम्बपोषैकमते सदा न ते विधेहि बुद्धौ च विमर्षमन्तः॥
5
नैते हया नैव रथा न चोष्ट्रा न वारणा नेतरवाहनानि। विहाय देहं समये गते ते परम्प्रपातस्य त साधनानि॥
6
कृष्णस्य मायामवगत्य माया समूढतान्तं हृदये विधाय। तदर्थमेवाखिललौकिकं ते विदेहिरे वैदिकमप्यशेषम्॥
7
आयुः प्रयाति न हि याति सुतादिरात्मा रायोऽखिला अपि विहाय मृतं व्रजन्ति। इत्थं विचिन्त्य विषयेषु विसृज्य सक्तिं भक्तिं हरेः कुरु परां करुणार्णवस्य॥
8
विधाय महदाश्रयं समवहाय सक्तिं सृते- र्निधाय चरणाम्बुजं हृदि हरेः सुखं संविश। किमर्थमतिचञ्चलं प्रकुरुषे मनः सम्पदो विलोक्य न हिताश्चलाः सुखयितुं क्षमा दुर्मद॥
9
इति श्रीहरिरायग्रथितं श्रीगर्वापहाराष्टकं समाप्तम्॥