Gurugangashtakam

Ashtakam

1

श्रीगणेशाय नमः। मातर्नन्दिकतीर्थसुन्दरभवे शैवैरुपास्ये शिवे निःशेषाघनिवारिणि त्वमुदिरे सौन्दर्यरत्नाकरे। देवानीकसुसेविते सुखकरे संसारतापापहे दीनं सुज्ञजनालिसेवितपदे त्वं मां पवित्रं कुरु॥

2

रोगार्दितं संसृतितापतप्तं षट्कर्महीनं त्वघसम्प्लुतं माम्। न चापगान्या भुवने त्वदन्या नाघं प्रकर्तुं जननी च तां गतम्॥

3

जगज्जननि त्वद्यशो भुवि महत्समुद्यत्सदा जनावलि-पवित्रतां प्रकुरुतेऽत्र बिन्दुस्तव। इति श्रवणतो मतिर्मम तवाम्बुसंसेवने पवित्रमकरोषि चेज्जननि तां कथं ते सुते॥

4

त्वदम्बुसेवनात्सदा निराकुला भविन्त ते खगा मृगाः सुरर्षयो नरोत्तमाः सुरासुराः। सुभक्तियुक्तचेतसा नरस्त्वदम्बुसेवनं करोति यः स याति धाम वैष्णवं सुरार्थितम्॥

5

असवो यदि यान्ति त्वत्तटे स नरो धन्यतया दिवं प्रयाति। हरिनाम इवात्र त्वत्तटं न विमुञ्चन्ति कदापि मानवाः॥

6

तव तीरनिवासवर्जिता न जनिर्जगतीतले मता सा। न यथा हरिनामवर्जिता रसनाया विषवल्लरी मता सा॥

7

विरजागुरुगङ्गे मे सितासिते यत्र सङ्गते तत्र। यः प्लावयति शरीरं स याति भक्त्या सुमाणिकं धाम॥

8

त्वद्दर्शनात्त्वत्स्मरणात्तवाम्बुसंसेवनान्माणिकपादसम्भवे। यत्सौकृतं तत्कथने न शक्त्या ब्रह्मादयस्तत्र कियानहं नरः॥

9

गुरुगङ्गाष्टकमिदं पठतां सर्वसिद्धिदम्। पठितव्यं सर्वकाले शयने च विशेषतः॥