Nigrahashtakam

Ashtakam

1

श्रीमदप्पय्यदीक्षितविरचितम्। मार्गे सहायं भगवन्तमेव विश्वस्य विश्वाधिक निर्गतोऽस्मि। शास्त्रं प्रमाणं यदि सा विपत्स्या- त्तस्यैव मन्दो मयि यां चिकीर्षेत्॥

2

कान्तारे प्रान्तरे वा मदकुशलकृतौ सान्तरं सान्तरङ्गं मह्यं द्रुह्यन्तमन्तं गमयतु भगवानन्तकस्यान्तकारी। क्षिप्रं विप्राधमस्य क्षिपतु तदुदरस्येव मायाविवर्ता नार्तान्बन्धूनबन्धूनिव मम शिशिराभ्यन्तरान्सन्तनोतु॥

3

सहस्रं वर्तन्तां पथिपथि परे साहसकृतं प्रवर्तन्तां बाधं मयि विविधमप्यारचयितुम्। न लक्षीकुर्वेऽहं नलिनजलिपि प्राप्तमपि तन- मम स्वामी चामीकरशिखरचापोऽस्ति पुरतः॥

4

सङ्कल्प्य स्थाणुशास्त्रप्रचरणविहतिः स्वेन कार्या भुवीति श्मश्रूणि स्वैरमश्रूण्यपि खलु महतां स्पर्धया वर्धयन्तम्। क्षुद्रं विद्रावयेयुर्झटिति वृषपतिक्रोधनिःश्वासलेशाः शास्त्रं शैलादिभृत्यास्तनुयुरखिलभूमण्डलव्याप्तमेतत्॥

5

क्वचिदवयवे दग्धुं कश्चिद्बलादनुचिन्तयन् निरसनमितो देशात्कर्तुं महेश्वरमाश्रितान्। प्रमथपरिषद्रोशैर्दग्धाऽखिलावयवः स्वयं निरसनमितो लोकादेव क्षणेन समश्नुताम्॥

6

कालप्रतीक्षा नहि तस्य कार्या पुलस्त्यपुत्राऽऽदिवदन्तकारे। त्वदाश्रितद्रोहकृतोद्यमानां सद्यः पतेदेव हि मूर्ध्नि दण्डः॥

7

कण्ठे रुद्राक्षमालां भसितमतिसितं भालदेशे च पश्यन् नश्यन्नेव क्रुधं यस्तदपहृतमतिः सत्सु कुर्वीत गुर्वीम्। तत्फालात्तूर्णमायुर्लिखितमसुगणं चापि तत्कण्ठदेशात् क्रुद्धास्ते ह्युद्धरेयुर्निजपदकमलाङ्गुष्ठलीलाविलासात्॥

8

सकलभुवनकर्ता साम्बमूर्तिः शिवश्चेत् सकलमपि पुराणं सागमं चेत्प्रमाणम्। यदि भवति महत्वं भस्मरुद्राक्षभाजां किमिति न मृतिरस्मद्रोहिणः स्यादकाण्डे॥

9

इति श्रीभारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य श्रीमदप्पय्यदीक्षितकृतं चक्राङ्कितनिग्रहाष्टकं सम्पूर्णम्॥