Narada Bhakti Sutra

प्रथमोऽध्यायः — परभक्तिस्वरूपम्

1

अथातो भक्तिं व्याख्यास्यामः ।

2

सा त्वस्मिन् परप्रेमरूपा ।

3

अमृतस्वरूपा च ।

4

यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति ।

5

यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ।

6

यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति ।

7

सा न कामयमाना निरोधरूपत्वात् ।

8

निरोधस्तु लोकवेदव्यापारन्यासः ।

9

तस्मिन्ननन्यता तद्विरोधिषूदासीनता च ।

10

अन्याश्रयाणां त्यागोनन्यता ।

11

लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता ।

12

भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् ।

13

अन्यथा पातित्यशङ्कया ।

14

लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि ।

15

तल्लक्षणानि वाच्यन्ते नानामतभेदात् ।

16

पूजादिष्वनुराग इति पाराशर्यः ।

17

कथादिष्विति गर्गः ।

18

आत्मरत्यविरोधेनेति शाण्डिल्यः ।

19

नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ।

20

अस्त्येवमेवम् ।

21

यथा व्रजगोपिकानाम् ।

22

तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ।

23

तद्विहीनं जाराणामिव ।

24

नास्त्येव तस्मिन् तत्सुखसुखित्वम् ।

द्वितीयोऽध्यायः — परभक्तिमहत्त्वम्

25

सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा ।

26

फलरूपत्त्वात् ।

27

ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च ।

28

तस्याः ज्ञानमेव साधनमित्येके ।

29

अन्योन्याश्रयत्वमित्यन्ये ।

30

स्वयं फलरूपतेति ब्रह्मकुमारः ।

31

राजगृहभोजनादिषु तथैव दृष्टत्वात् ।

32

न तेन राजा परितोषः क्षुच्छान्तिर्वा ।

33

तस्मात् सैव ग्राह्या मुमुक्षुभिः ।

तृतीयोऽध्यायः — भक्तिसाधनानि

34

तस्याः साधनानि गायन्त्याचार्याः ।

35

तत्तु विषयत्यागात् सङ्गत्यागात् च ।

36

अव्यावृत्तभजनात् ।

37

लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ।

38

मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा ।

39

महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ।

40

लभ्यतेऽपि तत्कृपयैव ।

41

तस्मिंस्तज्जने भेदाभावात् ।

42

तदेव साध्यतां तदेव साध्यताम् ।

43

दुस्सङ्गः सर्वथैव त्याज्यः ।

44

कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् ।

45

तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते ।

46

कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति ।

47

यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति ।

48

यः कर्मफलं त्यजति कर्माणि संन्यस्स्यति ततो निर्द्वन्द्वो भवति ।

49

यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते ।

50

स तरति स तरति स लोकांस्तारयति ।

चतुर्थोऽध्यायः — प्रेमनिर्वचनम्

51

अनिर्वचनीयं प्रेमस्वरूपम् ।

52

मूकास्वादनवत् ।

53

प्रकाशते क्वापि पात्रे ।

54

गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् ।

55

तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति ।

56

गौणी त्रिधा गुणभेदाद् आर्तादिभेदाद् वा ।

57

उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति ।

58

अन्य मात् सौलभं भक्तौ ।

59

प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् ।

60

शान्तिरूपात् परमानन्दरूपाच्च ।

61

लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् ।

62

न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च ।

63

स्त्रीधननास्तिकचरित्रं न श्रवणीयम् ।

64

अभिमानदम्भादिकं त्याज्यम् ।

65

तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् ।

66

त्रिरूपभङ्गपूर्वकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् ।

पञ्चमोऽध्यायः — मुख्यभक्तिमहिमा

67

भक्ता एकान्तिनो मुख्याः ।

68

कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च ।

69

तीर्थीकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि ।

70

तन्मयाः ।

71

मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति ।

72

नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः ।

73

यतस्तदीयाः ।

74

वादो नावलम्ब्यः ।

75

बाहुल्यावकाशत्वाद् अनियतत्त्वाच्च ।

76

भक्तिशास्त्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि ।

77

सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् ।

78

अहिंसासत्यशौचदयास्तिक्यादिचरित्राणि परिपालनीयानि ।

79

सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः ।

80

सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् ।

81

त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी ।

82

गुणमाहात्म्यासक्ति-रूपासक्ति-पूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्तिवात्सल्यसक्ति-कान्तासक्ति-आत्मनिवेदनासक्ति-तन्मयतासक्ति-परमविरहासक्ति-रूपा एकधा अपि एकादशधा भवति ।

83

इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णुकौण्डिण्य-शेषोद्धवारुणि-बलि-हनुमद्-विभीषणादयो भक्त्याचार्याः ।

84

य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते स भक्तिमान् भवति सः प्रेष्टं लभते सः प्रेष्टं लभते ।