Shri Narayanacharya Ashtakam

Ashtakam

1

भक्तमालां विनिर्माय भक्तभक्तिप्रदायकम्। नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

2

अग्रदेवार्यसच्छिष्यं भक्तानां कीर्त्तिगायकम्। नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

3

श्रीनामायणदासाख्यमग्रानुग्रहभाजनम्। नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

4

उदधेश्चन्द्रवद्रामानन्दधर्मस्य वर्धकम्। नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

5

दयया कीलदेवानां लब्धारं स्वस्य नेत्रयोः। नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

6

शिक्षकं भगवद्भक्तेवैष्णवधर्मरक्षकम्। नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

7

मालामुद्रादिसंस्कारमाहात्म्यस्योपदेशकम्। नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥

8

मताब्जभास्करस्थानां रहस्यानां प्रबोधकम्। नाभाचार्यमहं वन्दे द्वाराचार्यं जगद्गुरुम्॥