Shri Madhyarjunesha Ashtakam

Ashtakam

1

मध्यार्जुनेशं भजेहं साम्बमध्यार्जुनेशं महालिङ्गमाद्यं मध्यार्जुनेशं भजेहम्॥

2

ध्रुवपदम्॥

3

ज्योतिर्महालिङ्गरूपं कॢप्तभूपं भुजङ्गेन कृत्तारिवृन्दम्। भक्तार्ति संहार्यपाङ्गं ब्रह्मविष्ण्वादिवृन्दैर्मुदापूजिताङ्घ्रिम्॥

4

रुद्राक्षमालां धरन्तं ब्रह्महत्यादि पापानि सन्नाशयन्तम्। रक्षन्तमापत्सु भक्तान् भ्रान्तचित्तस्थदोषान् समुन्मूलयन्तम्॥

5

पुण्याश्वमेधप्रचारैः भूतपातादिचोरैः भवाम्भोधितारैः। कुर्वन्ति भक्ताः प्रसन्नं पुत्रपौत्राद्यभीष्टान् सदा पूरयन्तम्॥

6

भस्मादिभूषाविशेषं पुष्पविल्वादिपत्रैर्जुषाणं सुतोषम्। सर्वार्थदायिप्रदोषं विप्रवर्यौघ सम्प्रोक्तसामादिघोषम्॥

7

सह्याद्रिजातीर भाग्यं साधुभोग्यं सुरेन्द्रैः सदासाधुमृग्यम्। प्राप्यं कृतानेकपुण्यैः दीनरक्षैकदीक्षं कृपापूर्णवीक्षम्॥

8

पुष्पोत्सवे पुण्यगोष्ट्यां सामवेदादिघोषैः प्रमोदेनभान्तम्। ज्योतिर्मयानन्दकन्दं स्वर्जुनाख्यस्य वृक्षस्य मूले वसन्तम्॥

9

पुष्येरथे कालधौते दिव्यपुष्पाभिरामेवृषैरुह्यमाने। पश्यन्तमत्यन्तभक्तां सुन्दराभ्यां बृहद्भ्यां कुचाभ्यां युतान्ताम्॥

10

स्तोत्रं कृतं भक्तिपूर्वं दीक्षितानन्तरामेण पापौघशान्त्यै। नित्यं पठेद्यस्तु भक्त्या तस्य सर्वार्थलाभो भवेदाशुतोषात्॥