Chorashaila Ashtakam

Ashtakam

1

नाभौ सन्नतमुन्नतं कुचभरे नानायुधोद्यद्भुजं सौभाग्यावधिमुग्धवक्त्रकमलं सर्वाभिरामाकृति। पारेबद्धपयोधि भासुरतरं चोराचलाधीश्वरं दूरे दुर्गतिजृम्भितानि भवतां धूनोतु दौर्गं महः॥

2

व्यामीलन्महिषासुरत्रिकतटीविन्यस्तपादाम्बुजा श्यामीभूतशशाङ्कबिम्बरचनासम्भाव्यवक्त्राम्बुजा। सीमोल्लङ्घनशङ्कया श्रुतिपथे विश्रान्तनेत्राम्बुजा श्रीमच्चोरगिरीश्वरी गिरिसुता श्रेयांसि पुष्णातु वः॥

3

लीलालीनलुलायकण्ठकदलीकाण्डाग्रनालीगल- त्कीलालद्रवकर्दमद्रुतगतिक्रीडाकृताध्वश्रमा। हेलावल्गितहृद्यखड्गलतिकाखास्कारवीरोद्धता बाला मण्डितचोरशैलगहना मथ्नातु वो वैरिणः॥

4

निस्त्रिंशप्रकटत्रुटद्गळगळन्नीरन्ध्ररक्तच्छटा- विस्तारस्तबकान्तरव्यतिरटद्वेताळमालावृता। विष्टभ्याङ्घ्रितलेन माहिषमहादैत्यं मुहुर्मथ्नती पक्षान् मङ्क्षु भवद्द्विषां विशसतात् पाटच्चराद्रीश्वरा॥

5

बल्गत्खड्गभुजङ्गफूत्कृतधुतप्रध्वस्तदैत्यायुतं नृत्यद्दृतमहालुलायकलहक्रीडत्कृपाणीतलम्। तृप्यत्स्वर्पतिर्दिव्यवन्दिवदनप्रक्रान्तजैत्रारवं गर्जद्द्विट्छदभर्जनं भवतु वश्चोराद्र्यमाद्यं महः॥

6

सेवानम्रसुरेन्द्रवीरपृतनामाणिक्यमौलिच्छटा- खेलोद्धट्टघणद्धणत्कृतमणिक्षोणीमहामण्डपे। नानारागमरीचिवीचिविभवप्रोन्निद्रभद्रासने वीरास्थानवहा मलिम्लुचगिरेर्नाथैव नाथास्तु वः॥

7

आनन्दद्रवदिव्यसिन्धुलहरीवर्षाभिवर्षं दृशा- मायामी यमिनां मनोभिरनिशालेह्यो नवाह्यो रसः। नीरन्ध्राभरणप्रभानिरवधिखादु द्रुतं पातु व- श्चोराद्रेर्मणिदीपधाम जगतां माता सहः पातु वः॥

8

धारावर्षि धनं धनप्रणयिनामाराधनीयं परं वीराणां मरुतां विपत्सु शरणं वाग्वैभवं वाग्मिनाम्। धीराणां द्रुतनिवृतिः सुकृतिनां नेत्रे सुधास्खादिमा चोराद्रेर्मणिदीपथाम जगतां माता महः पातु वः॥

9

इति तदिदमष्टकं पुष्टभूषा परं जगदभिमतश्रियाम्प्यधाराधकम्। (नव्यधाराधरम्। ) श्रवणयुगळे मुहुः शीतगीतामृ तै- र्वहतु भुवनेश्वरा चोरशैलेश्वरा॥