shrIsvAminyaShTakam
Ashtakam
1
रहस्यं श्रीराधेत्यखिलनिगमानामिव धनं निगूढं यद्वाणी जपत सततं जातु न परम्। प्रदोषे दृग्मोषे पुलिनगमनायातिमधुरं बलत्तस्याश्चञ्चच्चरणयुगमास्तां मनसि मे॥
2
अमन्दप्रेमार्द्रप्रियकरतलं कुङ्कुमपिष- त्कुचद्वन्द्वे वक्षस्यपि च दधती चारु सततम्। कृपां कुर्याद्राधामयि रुचिरहेमाद्रिशिखरो- दितप्रावृण्मेघस्मरहरहरी चूचुकमिषात्॥
3
निमन्त्र्य प्रातर्या निजहृदयनाथं निरुपमा सुकौमार्यैकाकिन्यतिघनवनादात्मभवने। वधियान्नं स्वादु स्वयमतिमुदा भोजयति सा मयि प्रीता राधा भवतु हरिसङ्गार्पितमनाः॥
4
विधाय श्यामांसे निजभुजलतामिन्दुवदनं कटाक्षैः पश्यन्ती कुवलयदलाक्षी मधुपतेः। मुदा गायन्ती या मथुरमुरलीजातनिनदा- नुसारं तारं सा फलतु मम राधावदनयोः॥
5
अमन्दप्रेमार्द्रात्किसलयमयात्कोलशयना- दुषस्युत्थायाब्जारुणतरकपोलातिरुचिरा। गृहं यान्ती श्रान्तिस्थगितगतिरास्याम्बुजगतं घनीभूतं राधा रसमनुदिनं मे वितरतु॥
6
प्रियेणाक्ष्णा संसूचितनवनिकुञ्जेषु विविध- प्रसूनैर्निर्मायातिशयरुचिरं केलिशयनम्। दिगत्येषा गुञ्जन्मधुपमुखरे धारपवनी- श्रिते क्रीडन्ती मे निजचरणदास्यं वितरतु॥
7
कदम्बारूढं या निजपतिमजानन्त्यहनि त- त्तले कुर्वन्ती स्वप्रियतमसखीभिः सह कथाम्। अकस्मादुद्वीक्ष्य स्फुटतरलहारोरसमिति स्मितस्मेरव्रीडाऽऽननमुदिरदृक् सा मम गतिः॥
8
न मे भूयान्मोक्षो न पुनरमराधीशसदनं न योगो न ज्ञानं न विषयसुखं दुःखकदनम्। त्वदुच्छिष्टं भोज्यं तव पदजलं पेयमपि त- द्रजो मूर्ध्नि स्वामिन्यनुसवनमस्तु प्रतिभवम्॥
9
इति श्रीमद्गोपीजनचरणपङ्केरुहयुगा- नुगत्याऽऽनन्दाम्भोनिधिविभृतवाक्कायमनसा। मयेदं प्रादुर्भावितमतिसुखं विठ्ठलपदा- भिधेये मय्येव प्रतिफलतु सर्वत्र सततम्॥