Shri Surindratirtha Stutyashtakam
Ashtakam
1
(अर्थालङ्कारभूयिष्ठा) रूपकालङ्कारः- श्रीसूरीन्द्रगुरुः सुराहितसरुः सूरीढ्यशास्त्रम्भरुः दुस्सूराग्र्यतमोऽप (सा)हारसुचरुः सूराभसूरन्धरुः। सीरोत्कर्षणजातजानिमजनिं संसारनिस्सारकं संसृत्याश्रितसूरसारसुगुणान् संसेवकान्वपात्वलम्॥
2
उत्प्रेक्षालङ्कारः - श्रीसूरीन्द्रगुरोः सुकीर्तिसरितः स्तोतोऽतिशेते परं त्रिःस्रोता नु बिभेति सीदनमलं तस्याश्चसन्तोलने। निःस्यन्दः सुयशोधुनीवहगतो व्याप्नोति भुमण्डलं गाङ्गौघो नियतं भुवं प्रसरतीत्याहो परं विस्मयम्॥
3
अतिशयोक्त्यलङ्कारः गौतम्यो वरराघवेन्द्रमुनिपो मान्त्रीं ऋषीणां वशां गामामोचयदेव मृत्युमुखतो गोसन्ततेः पोषणात्। वेदान्तोपनिषत्प्रमेयविसरं संसाधयन्नित्यशः वेदव्यासपदं समाहितवतः भक्तप्रशिष्यो मुनिः॥
4
विरोधभासालङ्कारः स्वर्गेशस्य सभासुकान्तिनिकरं निर्जित्य विद्यासभा श्रीसूरीन्द्रगुरोस्तु भूमिविबुधैः सम्पादिता शोभते। स्वर्गीयैस्तु सुधासुपानविततेः संसाध्यते नैर्जरं मुक्तिर्वैतु फलं विचारमथने विद्वत्सभासाधिते॥
5
तुल्ययोतितालङ्कारः - कल्पद्रुः स्वकबीजवाहनविधामाश्रित्य जान्यं द्रुवं सम्पाद्यात्मपरम्परां नु जनयेदित्येव मान्या गतिः। श्रीसूरीन्द्रगुरुश्च कल्पतरुरित्याव्यानमान्यं गुरुं स्वीयं प्रेष्ठगुरुं प्रपद्य रुचिरं ह्याप्नोच्चसारूपताम्॥
6
व्यतिरेकालङ्कारः - श्रीसूरीन्द्रगुरुः सुरेन्द्रविभवश्चाध्यात्मसम्पद्भरुः ऐन्द्री वैभवराशिरल्पसमया जाध्यात्मभूतिः परम्। शश्वत् सौख्यपरा सुसाधनफला सुज्ञानयज्ञैर्दृढा सच्छ्रीराघवपादसेवनफला सद्राघवेन्द्राश्रया॥
7
हेतुमालालङ्कारः - श्रीसूरीन्द्रगुरो कृपा जनयिता सद्राघवेंर्दे रतिं सा भद्रं जनयेद्रतिं वरगुरोः सच्छास्त्रपारायणे। ज्ञानाड्ये सति साधके भगवतः सत्प्रीतिमाप्येत हि प्रीत्या तोषततिं सुसाधितवतो धन्यत्वमाशस्यते॥
8
विरोधाभासालङ्कारः - श्रीसूरीन्द्रगुरुः सुराधिपनुतः सत्कल्पवृक्षाश्रयः सूरीणां रुचिरं मनोभिमतमाढ्यं ह्याशु चाश्राणयेत्। सद्याञ्चामनुसृत्य वर्धयति कामं चैव कल्पद्रुमः मौनीन्द्रश्चहृदि स्थितं दिशति सद्भिर्वै सदा शंसितः॥
9
पञ्चमुख्यभिधाभाजा राघवेन्द्रार्यसूनुना वादिवाजेन रचिता श्रीसूरीन्द्रुगुरुस्तुतिः॥