Shri Bala Mantragarbha Ashtakam
Ashtakam
1
ऐङ्काररूपिणीं सत्यां ऐङ्काराक्षरमालिनीम्। ऐम्बीजरूपिणीं देवीं बालादेवीं नमाम्यहम्॥
2
वाग्भवां वारुणीपीतां वाचासिद्धिप्रदां शिवाम्। बलिप्रियां वरालाढ्यां वन्दे बालां शुभप्रदाम्॥
3
लाक्षारसनिभां त्र्यक्षां ललज्जिह्वां भवप्रियाम्। लम्बकेशीं लोकधात्रीं बालां द्रव्यप्रदां भजे॥
4
यैकारस्थां यज्ञरूपां यूं रूपां मन्त्ररूपिणीम्। युधिष्ठिरां महाबालां नमामि परमार्थदाम्॥
5
नमस्तेऽस्तु महाबालां नमस्ते शङ्करप्रियाम्। नमस्तेऽस्तु गुणातीतां नमस्तेऽस्तु नमो नमः॥
6
महामनीं मन्त्ररूपां मोक्षदां मुक्तकेशिनीम्। मांसांशीं चन्द्रमौलिं च स्मरामि सततं शिवाम्॥
7
स्वयम्भुवां स्वधर्मस्थां स्वात्मबोधप्रकाशिकाम्। स्वर्णाभरणदीप्ताङ्गं बालां ज्ञानप्रदां भजे॥
8
हा हा हा शब्दनिरतां हास्यां हास्यप्रियां विभुम्। हुङ्काराद्दैत्यखण्डाख्यां श्रीबालां प्रणमाम्यहम्॥
9
इत्यष्टकं महापुण्यं बालायाः सिद्धिदायकम्। ये पठन्ति सदा भक्त्या गच्छन्ति परमां गतिम्॥