Shri Amaranatha Ashtakam
Ashtakam
1
श्रीशङ्कर॥
2
(वसन्ततिलका) भागीरथीसलिलसान्द्रजटाकलापम् शीतांशुकान्ति-रमणीय-विशाल-भालम्। कर्पूरदुग्धहिमहंसनिभं स्वतोजम् नित्यं भजाम्यऽमरनाथमहं दयालुम्॥
3
गौरीपतिं पशुपतिं वरदं त्रिनेत्रम् भूताधिपं सकललोकपतिं सुरेशम्। शार्दूलचर्मचितिभस्मविभूषिताङ्गम् नित्यं भजाम्यऽमरनाथमहं दयालुम्॥
4
गन्धर्वयक्षरसुरकिन्नर-सिद्धसङ्घैः संस्तूयमानमनिशं श्रुतिपूतमन्त्रैः। सर्वत्रसर्वहृदयैकनिवासिनं तम् नित्यं भजाम्यऽमरनाथमहं दयालुम्॥
5
व्योमानिलानलजलावनिसोमसूर्य होत्रीभिरष्टतनुभिर्जगदेकनाथः। यस्तिष्ठतीह जनमङ्गलधारणाय तं प्रार्थयाम्यऽमरनाथमहं दयालुम्॥
6
शैलेन्द्रतुङ्गशिखरे गिरिजासमेतम् प्रालेयदुर्गमगुहासु सदा वसन्तम्। श्रीमद्गजाननविराजित दक्षिणाङ्कम् नित्यं भजाम्यऽमरनाथमहं दयालुम्॥
7
वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः शक्यं समाकलयितुं न यदीयरूपम्। तं भक्तिभावसुलभं शरणं नतानाम् नित्य भजाम्यऽमरनाथमहं दयालुम्॥
8
आद्यन्तहीनमखिलाधिपतिं गिरीशम् भक्तप्रियं हितकरं प्रभुमद्वयैकम्। सृष्टिस्थितिप्रलयलीलमनन्तशक्तिम् नित्यं भजाम्यऽमरनाथमहं दयालुम्॥
9
हे पार्वतीश वृषभध्वज शूलपाणे हे नीलकण्ठ मदनान्तक शुभ्रमूर्ते। हे भक्तकल्पतरुरूप सुखैकसिन्धो मां पाहि पाहि भवतोऽमरनाथ नित्यम्॥