Bahuleya Ashtakam
Ashtakam
1
श्रीगणेशाय नमः। ॐ ॐ ॐ होमधूमप्रकटतटजटाकोटिभोगिप्रपूरं आं आं आं आदितेयप्रणतपदयुगांभोरुहश्रीविलासम्। ऊं ऊं ऊं उग्रनेत्रत्रयलसितवपुर्ज्योतिरानन्दरूपं श्रीं श्रीं श्रीं शीघ्रचित्तभ्रमहरमनिशं भावये बाहुलेयम्॥
2
ह्रीं ह्रीं ह्रीं हृष्टषट्कन्धरमघमरणारण्यसंवर्त्तवह्निं ऐं ऐं ऐं ऐङ्गुदीसत्फलमृदुमिलितप्राशियोगीन्द्रवन्द्यम्। क्लीं क्लीं क्लीं क्लिष्टकायक्लमदवदहनक्लेशनिर्मूलनाशं सौं सौं सौं सौरकान्तिभ्रमहरमनिशं भावये बाहुलेयम्॥
3
शं शं शं शब्दरूपं शशिधरममलं शङ्करं सांबमूर्तिं शिं शिं शिं शिष्टवन्द्यं शिखरिनिलयनं शिक्षितानेकलोकम्। शुं शुं शुं शुभ्रहासं शुभकरमतिसन्देहसन्दोहनाशं शौं शौं शौं शौक्लिताङ्गं सितभसितगणैर्भावये बाहुलेयम्॥
4
रं रं रं रम्यदेहं रजतगिरिगृहं रक्तपद्माङ्घ्रियुग्मं रिं रिं रिं रिक्तशोकप्रकृतिपरमजंघालमानीलनेत्रम्। रुं रुं रुं रूक्षकायप्रतिभटहननं रक्तकौशेयवस्त्रं रौं रौं रौं रौं रौरवादिद्रुतहरकुहरं भावये बाहुलेयम्॥
5
हं हं हं हंसयोगिप्रवरसुखकरं हस्तलक्ष्मीसमेतं हिं हिं हिं हीनमानं हितसुखवरदं हिंसयापेतकीलम्। हुं हुं हुं हुंकृतिध्वंसितरजनिचरक्रौर्यकौटिल्यमूर्तिं हैं हैं हैं हैमकुंभायतकरसहजं भावये बाहुलेयम्॥
6
णं णं णं नन्दिकेशप्रवरभुजगनिर्विघ्नकर्मप्रपञ्चं णिं णिं णिं नीलकण्ठप्रियसुतमजितं निर्मलाङ्गं निरीहम्। णुं णुं णुं णुत्तनाभोत्तरनिभृतनिरालंबकैवल्यमूर्तिं णौं णौं णौं नामरूपात्मकजगदखिलं भावये बाहुलेयम्॥
7
भं भं भं भागधेयं भगवदनुचरप्राञ्जलिस्तोत्रपूरं भिं भिं भिं भीमनादान्तकमदनहरं भीषितारातिवर्गम्। भुं भुं भुं भूतिभूषार्च्चितममितसमस्तार्थशास्त्रान्तरङ्गं भौं भौं भौं भौममुख्यं ग्रहगणनपटुं भावये बाहुलेयम्॥
8
वं वं वं वाहिनीशं वलरिपुनिलयस्तोत्रसम्पत्समूहं विं विं विं वीरबाहुप्रभृतिसहचरं विघ्नराजानुजातम्। वुं वुं वुं भूतनाथं भुवननिलयनं भूरिकल्याणशीलं वौं वौं वौं भावितारिप्रतिभयमनिशं भावये बाहुलेयम्॥