Shri Keshavaraja Ashtakam

Ashtakam

1

%३३ कशब्दवाच्यो कथितो विधाता स्यादीशशब्देन हरो विकर्ता। तौ द्वौ स्वशक्त्या वशत्यतन्द्रः स केशवोऽत्र प्रथितोऽस्त्युपेन्द्रः॥

2

चतुर्भुजैः सायुधभूषणाढ्यैर्यो लोकपालैरिव युक्प्रभाढ्यैः। जयत्यजस्रं निजपा विनिद्रः स केशवोऽत्र प्रथितोऽस्त्युपेन्द्रः॥

3

पीताम्बरालङ्कृतचारुदेहः किरीटकेयूरधरो विमोहः। भृत्यावने योऽनिशमस्ततन्द्रः स केशवोऽत्र प्रथितोऽस्त्युपेन्द्रः॥

4

कल्पान्तमेघद्युतिगर्वहर्त्री यस्य द्युतिः स्वान्तरहर्षदात्री। बिभाति लावण्यनिधिः सुधीर्यः स केशवोऽत्र प्रथितोऽस्त्युपेन्द्रः॥

5

महाविभूतिर्जगतीह दासी-भूतामरस्त्रीरपि यस्य दासी। पदस्य नित्यं धृतहासमुद्रः स केशवोऽत्र प्रथितोऽस्त्युपेन्द्रः॥

6

यो नामदेवस्य दृष्टां सुभकिन्त ज्ञात्वाऽपि बालस्य मुदे हि दुग्धम्। शिलात्मनापीह पपौ सुभद्रः स केशवोऽत्र प्रथितोऽस्त्युपेन्द्रः॥

7

यो देशिकस्यापि तरां सुभक्त्या तुष्टो महात्मा तदधीन आस। तद्वंशजेभ्योऽप्यधुना वितन्द्रः स केशवोऽत्र प्रथितोऽस्त्युपेन्द्रः॥

8

प्रसीद मे केशव दीनबन्धो प्रसीद मे केशव चार्तबन्धो। बन्धोच्छिदार्योऽसि कृपासमुद्रः स केशवोऽत्र प्रथितोऽस्त्युपेन्द्रः॥

9

एवं स्तुतोऽष्टभिर्हृद्यैः पद्यैः पातु न आर्तिहा। महात्मा वासुदेवेन यतिनाऽस्तु भवार्तिहा॥

10

इति श्रीवासुदेवानन्दसरस्वतीविरचितं केशवराजाष्टकं सम्पूर्णम् ।॥